________________
३२६
प्र० वा० वृत्तौ (३ परिच्छेदः) कथन्ता भिन्नधीग्रायाः समाश्चेदेककार्यता।
सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥१०७॥ ननु समाश्चेद् व्यक्तयोध्यवसीयन्ते। कथं ता भिन्नधीग्राह्याः। न खलु समत्वमेकत्वं किन्त्वेककार्यतासादृश्यं (1) न हि स एवायं तदत्र वेति निश्चयः। अपि त्वयमपि गौरित्यध्यवसायः। तथा चैकार्थक्रियाकारित्वमेव सादृश्यं । ननु धीः कार्य तासां व्यक्तीनां सा च प्रतिव्यक्ति भिद्यते तत्कथमेकार्थक्रियाकारित्वं सादृश्यं । (१०७) ___ अत आह। ... १ एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी।
___एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥१०८॥ यद्यपि प्रतिव्यक्ति भिन्ना तथाप्येकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिन्येकाऽभिधीयते (1) तथाविधायाश्चैकस्या धियो हेतुभावेन व्यक्तीनामभिन्नतोच्यते॥ (१०८)
सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः। - अष्टेः प्रतिषेधाच संकेतस्तद्विदर्थिकः ॥१०९॥ सा चाभिन्नताऽतत्कार्येभ्यः पदार्थेभ्यो विश्लेषो व्यवच्छेदस्तत्कारिणां वस्तुभूतजातिरेव किन्ने ष्यते इत्याह। ततो व्यवच्छेदादन्यस्य (अनुत्तिनः) सामान्यस्य । वस्तुसतोऽदृष्टेः स्वभावानुपलब्ध्या प्रतिषेधाच्च। ततश्च संकेतस्तद्विदर्थिक•स्तस्य व्यवच्छेदस्य विदर्थो यस्यास्ति स तथा ॥ (१०९)
अतत्कारिविवेकेन प्रवृत्यर्थतया श्रुतिः। अकार्यकृतितत्कारितुल्यरूपावभासिनीम् ॥११०॥
-
'परोत्र विरोधमाह समाश्चेत् (1) कथम्भिन्नधीग्राह्या एकाभिन्नधीग्राह्या अपि स्युर्व्यक्तिसामान्ये समाना इति अन्यथा घटपटादिवदभेद एव स्यात् । २न समानतान्यथानुपपत्त्या स्वहेतुभ्यस्तथोत्पत्तेः केषाञ्चित् ।
उदकाहरणादि प्रतिव्यक्ति भिन्नं अनुभवज्ञानमेव व्यक्तिकार्य तदपि भिन्नमेव न विकल्पकं व्यक्त्यभावेपि भावात् धीरविकल्पापि।
४ स्वविषयस्यैकाकारप्रत्ययस्य।
। अध्यवसितकरूपायाः प्रत्येक व्यक्तिपाहिधियां भेदेपि प्रत्यभिज्ञया तासामेकत्वमध्यवसीयत इत्यर्थः एतदेवैककार्यतासादृश्य।
“पूर्वोक्तात्।। ' विकल्पाध्यस्तबाह्यप्रतिपत्त्यर्थः।