________________
. सामान्यविस्ता..
. -
३२५ नीलादेर्नेत्रविक्षाने पृथक् सामर्थ्यदर्शनात् ॥१०॥ नीलादेर्नेत्रविज्ञाने कार्य पृथक् प्रत्येकं सामर्थ्यवर्शनात् । (१०३)
शक्तिसिद्धिः समूहेपि नैवं व्यक्त कथञ्चन । शक्तिसिद्धिः समूहेपि युक्ता। एवं व्यक्तेन प्रत्यभिज्ञा नजनने सामर्थ्य कथञ्चन दृष्टं येन समुदायेपि सामर्थ्यकल्पना स्यात् ॥
तासामन्यतमापेक्ष्यं तच्चेच्छक्कं न केवलम् ॥१०४॥ तासां व्यक्तीनामन्यतमापेक्ष्यं तत् सामान्यं प्रत्यभिज्ञाने शक्तं न केवलमिति . चेत् ॥ (१०४) .
तदेकमुपकुर्युस्ताः कथमेकान्धियश्च न ।
कार्यश्च तासां प्राप्तोसौ जननं यदुपक्रिया ॥१०॥ - तत्सामान्यमेकं कथन्ता व्यक्तय उपकुर्युः (२) न त्वेकान्धियमनुपक्रियमाणस्य समवेतत्वेऽतिप्रसङगाद् व्यक्तिभिः सामान्यमुपकर्तव्यं । तथा धीरप्येकोपकर्तव्या। यच्च सामान्यादिरुपक्रियते व्यक्तिभिः कार्यश्च तासां प्राप्तोसौ यद्यस्माबुपक्रिया जननमेव । न ह्युपक्रियमाणादन्यस्मिन्नुपकाराख्ये वस्तुनि कृतेपि तस्य किञ्चित् । तत्सम्बन्धाच्चेत् । सम्बन्धो भिन्न एवेति किन्तस्य जातं । बभिन्न तूपकारे स एव कृतः स्यात् । तथा जननमेवोपकारः ॥ (१०५)
अभिन्नप्रतिभासा धीन मिन्नेष्विति चेन्मतम् । - प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥१०६॥
एकसामान्याभावेऽभिन्नप्रतिभासा एकाकारा धीर्न भिन्नेविति चेन्मत। ननु प्रतिभासो धिया भिन्नो नैकाकारः समाना इमा इति तासां व्यक्तीनां महात्। न हि भूत कण्ठगुणवदेकं सामान्यं सर्वानुपा (?या) यि व्यक्तिव्यतिरिक्त प्रतिभाति। किन्तु गौौरिति सामान्यमवसीयते तच्च भेदाधिष्ठानमेव ॥ (१०६)
__१ नीलाविस्वस्वरूपभेववत् ज्ञानान्यपि भिन्नान्याकारभेदात् । नवं शुक्लादिसहितसामान्यजनिते ज्ञाने भेदः। एवं सति।
। व्यतिरिक्ताव्यतिरिक्तसामान्ययोगाद् भ्रान्तिरेव व्यक्तिध्वेकाकारःप्रतिभास इत्युक्त्वा नैवास्त्पेकप्रतिभासो व्यक्तिस्वित्याहाधुना।
न होकस्मिन् प्रतिभासे समाना इति युक्तं किन्तु तदेवेति । . ' नवग्रहं। 'व्यक्तिविशिष्टसामान्यग्रहोपि न युक्त इत्याह ।