________________
३२४
प्र० वा. वृत्तौ (३ परिच्छेदः)
(ङ) तद्वत्तानिश्चयः तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः ॥९९॥
तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् । ___ यदा सामान्यज्ञानस्य न विशेषो विषयस्तदा कदाचिदगृहीतस्य सम्बद्धस्य सामान्येन तद्वतो विशेषस्य (९९) तद्वत्तानिश्चय इदमस्य सामान्यमिति ज्ञानं न स्यात् । ततस्तद्वत्ताव्यवहारः कथं त्वन्मते ॥
एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥१०॥ तदेकं वस्तु किं तासां नानात्वं समपोहति ।
नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥१०१।। 6ab एक वस्तु सामान्यं तत्सहायाश्चेद् व्यक्तयो ज्ञानस्य प्रत्यभिज्ञानस्य कारण
मिष्यन्ते (1) तदेकं सामान्यं वस्तु किन्तासां व्यक्तीनाममिश्रस्वभावानां नानात्वं समपोहति (1) येन प्रत्यभिज्ञानहेतुत्वे । नानात्वाच्चैकस्य प्रत्यभिज्ञाज्ञानस्य हेतुता तासु त्वया नेष्यते। तच्चेत् तथैव न स्यात्' प्रत्यभिज्ञानम् ॥(१००, १०१)
अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् । ताभिविनापि प्रत्येकं क्रियमाणान्धियं प्रति ॥१०२॥
तेनैकेनापि सामान्यात तासां नेत्यग्रहे धिया। अनेकमपि व्यक्तिरूपं यद्येकं सामान्यमपेक्ष्याभिन्नबुद्धिकृत् प्रत्यभिज्ञानकारीष्यते। ताभिर्व्यक्तिभिः प्रत्येकं विनैकैकया प्रेरितेन सामान्यनैकेन क्रियमाणां धियं प्रत्यभिज्ञा प्रतिभासां व्यक्तीनां सामर्थ्य नेति तया धिया तासामग्रहः । केवलं सामान्यग्रहणे च तद्वत्ता निश्चयो न स्यादिति दुःपरिहरं ॥(१०२) ।
ननु यथा नीलादीनामेकैकापायेपि चक्षुविज्ञानं दृष्टं तत्समुदायेपि दृश्यते। एवं यद्यपि प्रत्येक व्यक्तीनां व्यभिचारस्तथापि यदा सत्वं तदा विषयत्वमित्याह॥
१ किं पुनस्तासां नानात्वापोहः भाष्यत इत्याह। 'ह्यर्थे चः। । व्यक्तिषु। ४ पूर्ववद् व्यक्तिग्रहः। 'च एवार्थे ।
न समस्ताभिः किन्तु प्रत्येक शावलेयाभावे बाहुलेये गोबुद्धिस्तदभावेन्यत्र (1) एवं सर्वासां प्रत्येकमभावेपि।
प्रत्येक व्यक्त्यभावेपि ज्ञानभावात्। 'बाह्यमध्यवस्यतीत्यलोकेति न सम्वाद इत्याह।