SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सामान्यचिन्ता ३२३ व्यवच्छेदेऽक्रियमाणे कथं स श्रोता प्रतिनियतपदार्थार्थी' प्रवर्तेत विषयानभिधानात्॥(९५) अथ शब्दैर्व्यवच्छेदः क्रियत एव प्रवृत्तिविषयस्तु जातिरुच्यत इत्याह । व्यवच्छेदोस्ति चेदस्य नन्वेतावत प्रयोजनम् । शब्दानामिति किं तत्र सामान्येनापरेण वः ॥९॥ अस्य जातिमतो व्यवच्छेदोऽस्ति चेत्। नन्वेताववन्यव्यवच्छेदे न प्रवर्तनं शब्दानां प्रयोजनमिष्टमिति सामान्येनापरेण किं कार्य वः। तदन्तरेण च शब्दादन्यव्यवच्छेदाभिधानेपि प्रवृत्तिसंभवात् ॥(९६) . (६) सामान्याभावे प्रत्यभिज्ञासंगतिः --- --- - यदि नास्ति जातिस्तदा भिन्नस्वभावेषु भावेषु स एवायं गौरित्यादि प्रत्य'भिज्ञानं न स्यादित्याह। ज्ञानाद्यर्थक्रियां तांस्तां दृष्ट्वा भेदेन कुर्वतः । अर्थान्तद्न्यविश्लेषविषयैर्ध्वनिभिः सह ॥९॥ - ज्ञानमाविर्यस्या बाहाद्यर्थक्रियायास्तामेकाकारपरामर्शविषयां भेवेन नानात्वेपि कुवतीर्थान् दृष्ट्वा तदन्यस्माद् यो विश्लेषः स विषयो येषां तैई वनिभिः । सह ॥ (९७) .. संयोज्य प्रत्यभिज्ञानं पूर्वदृष्टान्यदर्शने। परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥९८॥ संयोज्य स एवायं गौरित्यादिप्रत्यभिज्ञानं पूर्वदृष्टादर्थाद् विलक्षणस्य दर्शनेपि कुर्यात्। तदन्यविश्लेषस्य सर्वत्र साम्यात्॥ किञ्च (1) यदि नानात्वात् प्रत्यभिज्ञानमयुक्तं तदा परस्यापि न सा प्रत्यभिज्ञा • बुद्धिः सामान्यादेव केवलादिष्टा किन्तु सामान्यविशेषाभ्यां । (९८) कस्मादित्याह (1) नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः। नित्यतया तस्य सामान्यमात्रस्य विज्ञाने व्यक्त्यज्ञानप्रसङ्गतः ॥ 'आनयेति सर्वस्य अग्निमिति व्यवच्छेदवैययं अव्यवच्छेदेनाभिधाने। तवस्वीकारे न जातिरित्युक्तं। मी मां स क स्य मतेन ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy