________________
३२२
प्र० वा० वृत्तौ (३ परिच्छेदः)
1
स्वीकारेण अनर्थक्रियाकारित्वादस्याः स्वलक्षणस्य च विपर्ययात् । व्यक्तीनामानन्त्यान्न तत्र शक्य इति चेत् । इदमानन्त्यं समं ? जातिमद्व्यक्तिष्वपि ।। (९३) तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः ।
तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ||९४ ||
किञ्च यामर्थक्रियामुद्दिश्य शब्दनियोगस्तत्कारिणामर्थानामतत्कारिभ्यो यो भेदो व्यवच्छेदस्तदेव साम्यं सामान्यमन्यापोहः साधारणत्वात् । तत्र किं संकेतो न कृतः सामान्यवदपोहोपि साधारणोऽनर्थक्रियाकारी स्वलक्षणसम्बन्धात् तदुपलभ्यरूपश्च। तद्वद्दोषस्य जाति मति संकेतविषये आनन्त्यात् संकेताकरणस्य साम्याच्चेदस्तु दोषः समानत्वात् ( 1 ) द्वयोरस्य जातिः पराऽलमनुपयुक्ता जातिमभ्युपेत्यापि विजातीयव्यवच्छेदो' ऽ' वश्याश्रयणीयः । यदि गौरश्वादिभ्यो न व्यवच्छिन्नस्तदाऽश्व एव स्यात् । यश्चैकस्य व्यवच्छेद: स सर्व्वस्य (1) स एव सङ्केतविषयोऽस्तु किं प्रमाणबाधितजातिस्वीकारेण । अत एव तद्वद्दोषोपि न सम्भवति। अभ्युपगम्य तु सांप्रतमापादितं ।। (९४) किञ्च (1)
५
तदन्यपरिहारेण प्रवर्त्तेतेति च ध्वनिः ।
तेन तेभ्योऽव्यवच्छेदे प्रवर्त्तेत कथञ्च सः ॥ ९५ ॥
तस्मा देकार्थक्रियाकारिणो ऽन्यस्य परिहारेण शब्दात् प्रवर्त्ततेति ध्वनिरुच्यते । तेन ध्वनिना तेभ्योऽतत्कारिभ्योऽस्य तत्कारिणोऽव्यवच्छेदे
१ न हि गोशब्दाद् गोत्वबुद्धया व्यक्तिबोधोस्ति । सामान्ये वातोदिते कथं व्यक्तौ वृतिः । न हि सम्बन्धेपि दण्डं (f) च्छन्धीति दण्डिनं छिनत्ति कश्चित् ।
२ जातौ कृते संकेते व्यक्तावप्रतीतिर्न च जातितद्वतोः सम्बन्धोऽतदुत्पत्तेः ।
३ जातिमत्पर्क्षे यो [दिग्] नागोक्तदोषः । तद्वतो नास्वतन्त्रत्वादित्यादिना तद्दोषावताराद् भेदेन्यव्यावृत्तिलक्षणे न शब्दनियोगः जातिकल्पनमनर्थनिर्व्वन्ध एव नित्यव्यापिताद्ययोगादयमाशयो व्यावृत्त्यमिधाने नागस्य जातिर्न प्रवृत्तियोग्या तद्द्द्वातोदितेपि न वृत्तिरित्युक्तेः अर्थाशक्तेः ।
४ भावानामन्यव्यावृत्त्यभावे वस्तुभूताऽनेकासमवेता जातिरपि न स्यात् । * विजातीयाद् भेद एव सजातीयाभेदः इति आनन्त्यादिदोषः खण्डितः स्यात् जातिधर्मश्च दर्शित इति व्यवच्छेदं त्यक्त्वा ।
9
अधुना शब्देनावश्यं व्यावृत्तिश्चो
६ व्यवच्छेदविशिष्टोर्थः । दनीयेत्याह । - श्रोत्रा प्रतिपादकेन ।