________________
सामान्यता
तद्रूप
'सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
न श्रुतिः कल्पना वास्ति सामान्येनैव वृत्तितः ॥९०॥ -
तस्मात् तस्य स्वलक्षणस्य रूपं सर्व्वतः सजातीयविजातीयाद् भिन्नं तथा तेन सर्व्वतो भिन्नेन रूपेण तत्प्रतिपादिका श्रुतिः कल्पना या नास्ति । सामान्येनैव कल्पितेन रूपेण शब्दविकल्पयोर्वृत्तितः ॥ (९०)
किं पुनः स्वलक्षणमेव शब्दैर्नोच्यते इत्याह । शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र न ॥९१॥ शब्दाः संकेतितमर्थमाहुर्न यं कञ्चित् 1 स संकेतो स्मृतः ( 1 ) संकेतित मथं शब्दा दुच्चरितात् प्रतिपद्येयमिति संकेतग्रहणं । तदा व्यवहारकाले च स्वलक्षणं संकेतविषयो नास्ति तेन तत्र स्वलक्षणे संकेतो न युक्तः ॥ (९१)
व्यवहाराय
एवन्तर्हि सामान्ये ॥ व्यवहारकालानुयायिनि संकेतः स्यादित्याह । अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाज्ञमान । तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः ॥९२॥
•
३२१
अपि प्रवर्त्तेत पुमान् शब्दाद् विज्ञायार्थक्रियाक्षमान् । तस्या अर्थक्रियस्याः साधनायेति । एतदर्थमर्थेषु संयोज्यन्ते संकेत्यन्ते शब्दा न व्यसनितया ।। (९२) अत्रानर्थक्रियायोग्यो नास्ति तद्वानलं स च ।
साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥९३॥
8
सत्यनर्थक्रियायां योग्योऽर्थक्रियायां शक्ता जातिरिति न तत्र सहकेतो युक्तः । तद्वात् जातिमान् विशेषोऽलं शक्तोऽर्थक्रियायामिति तत्र संकेत इति चेत् । स विशेषश्च साक्षात् संङ्केते कस्मान्न योज्यते (1) कि जातिव्यवधि
१ येन तत्प्रतिपादिका न श्रुतिः ।
२ सामान्येनैवेत्युक्तेप्यधिकपरिहारायोपन्यासः ।
• कथं नाम ।
४१
संकेतविषयीकृतं ।
एकस्वलक्षणस्यापि क्षणिकत्वान्नानुगमोऽशनिकस्यापि संकेतज्ञानाजनकत्वात् । किमुत देशकालभिन्नेषु ।
भवतु ।
वैशेषिक स्यं व्यतिरिको सां ख्य स्याव्यतिरिक्ते । C - सामान्येन शब्दशितेन सम्बन्धाद् व्यक्तिरपि लक्ष्यते