________________
३२०
प्र० वा० वृत्तौ (३ परिच्छेदः) भेदस्ततोपि बौद्धेऽर्थे सामान्यं भेद इत्यपि ।
तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥८॥ ततोयं विशेष इदं सामान्यमिति भेद इदं साध्यमिदं साधनमित्यपि भेदो बौद्धे बुद्धिपरिकल्पितेऽर्थे न वस्तुनि। कथन्तर्हि स्वलक्षणे कृतकत्वादिभेद इत्याह। तस्यैव स्वलक्षणस्यान्यस्मादकृतकादेावृत्या तदाश्रयेण धर्मभेदः प्रकल्प्यते ॥(८७) कस्मात् कल्पितभेदद्वारेण साध्यसाधनभाव इष्टो न वस्तुभेदेनेत्याह।
साध्यसाधनसंकल्पे वस्तुदर्शनहानितः।
भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥८८॥ साध्यसाधनसंकल्पे इदं साध्यमिदं साधनमिति विकल्पे क्रियमाणे वस्तुदर्शनस्य हानितः कल्पित एव भेदः। न खलु विकल्पे वस्तुदर्शनमस्ति कल्पितगोचर' त्वात् तस्य। आलोचनाज्ञानं वस्तुविषयं न किञ्चित् तद् विभजति।
नवाचार्यदि ग्ना ग स्य भेदः सामान्यसंसृष्टो ग्राह्य इष्टः । अत्र भेदः सामान्यसंसृष्ट: प्रतीयते इत्यस्मिन् वचने न स्वलक्षणं ग्राह्यतया निर्दिष्टं किन्त्वध्यवसेयतया ॥ (८८) कस्मादेव"मित्याह।
समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन ।
भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ।।८९॥ समानभिन्नाद्याकारैः सामान्याकारमिधर्मभेदाकारसामानाधिकरण्याद्याकारैश्च तत् स्वलक्षणं कथञ्चन ग्राह्यं न भवति। किं कारणमित्याह। भेदानां धर्माणां कृतकत्वादीनां बहुभेदानामनेकप्रकाराणां तत्र स्वल क्षण एकस्मिन्नयोगतः॥ (८९)
'कुतः स्वलक्षणस्य सामान्यसहितस्य ग्रह इति वा। २ बाह्य एव भेदास्तेनापोहलक्षणेन सामान्येन संसृष्टा अध्यवसीयन्ते। ३ तत्र बोद्धव्यं । . ४ वस्तुरूपाणां। 'निरंशत्वात्।