________________
सामान्यचिन्ता
. १९ तदेवं यथा'प्रतीति संव्यवहारानतिक्रमेण भावार्थः सामान्यलक्षणः सामानाधिकरण्यं विशेषणविशेष्यभावश्च च शव्यात् कषितोऽसन्नपि परमार्थतः। यतो वस्तुन्यस्य शब्दार्थस्य सामान्यादेः पारमार्थिकस्यासंभवः। सर्वतो. व्यावृत्तस्य वस्तुमात्रस्याध्यक्षेणोपलम्भात् । तद्वपावृत्त्याश्रयेण कल्प्यमान सामान्य तत्सामानाषिकरण्यं चावस्त्वेव ॥ (८३) ... .
धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृशः। - असमीक्षिततत्वोर्थों यथा लोके प्रतीयते ॥४॥
तथा धर्म धर्मिणोर्व्यवस्थानियमः शब्दो धर्येव कृतकत्वं धर्म एव। तयोभेंदः शब्दो धर्मी कृतकत्वं धर्म इत्यभेवश्च कृतकोऽनित्यश्च शब्द इत्यादि (1). यादृशो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामुक्तोऽसमीक्षित तत्वोर्योऽलक्षिततत्वो यथा' लोके प्रतीयते ॥ (८४) ' तं तथैव समाश्रित्य साध्यसाधनसंस्थितिः। - परमार्थावताराय विद्वद्भिरवकल्प्यते ॥५॥
तं पम्मिधादिविभागं तथैव समाश्रित्य साध्यसाधनसंस्थितिविभिरवकल्प्यते (1) परमार्थे वस्तुस्वभावभूते क्षणिकत्वादाववताराय' लोकस्य वस्तुत्वक्षणिकत्वयोर्भेदः परः कल्पितः वस्तु तु क्षणिकमेव। तच्च साध्यसाधनकल्पनया शक्यं प्रत्येतुं ॥(८५) ... कस्मात् पुनर्वस्तुनि सामान्यमिधर्मादि नास्तीत्याह (1) १ संसृज्यन्ते न मिद्यन्ते स्वतोर्थाः पारमार्थिकाः । रूपमेकमनेकञ्च तेषु बुद्धरुपमवः ॥८६॥
पारमार्थिका अर्थाः स्वतः स्वरूपेण न संसृज्यन्ते (1) यतः सामान्यं वस्तु स्यात् । नापि भिद्यन्ते कृतकत्वशब्दत्वादिना यतो धर्मिधर्मभेदो भवेत्। यत्तु तेषु' रूपमेकं गोत्वाद्यनुयायि। अनेकञ्च' शब्दकृतकत्वादि व्यवह्रियतेऽसौ बुद्धरनादिवासनोपहताया उपल्पवो मिथ्योपदर्शनं ॥ (८६).
..--
-
-
'यदि बाह्ये सामान्यादिव्यवहारस्तहि वास्तवः प्राप्त इत्याह। २ विकल्पबुद्धपनुरोधेन। अयमपि शानप्रतिभासिन्यर्थ इत्याह। ४ शब्दस्य कृतकमिति। विकल्पारोपितत्वात।.
बुद्धपाख्ढोप्यध्यवसिततद्भावतया। . . .बहुष्वर्येषु। ... 'एकत्रार्थ।