________________
३१८
प्र० वा० वृत्तौ (३ परिच्छेदः)
यादृशी साध्यप्रतिबद्धकार्यस्वभावानुपलम्भलिङ्गजानुमितिरुक्ता । तत्र यथा परंपरया वस्तुसम्बन्धाद् वस्तुप्राप्तिर्नान्यत्र भ्रान्तिसाम्येपि दीपतेजो मणौ यथा । कुञ्चिकाविवरदेशस्थे दीपतेजसि भ्रान्त्या समारोपिते मणौ परम्परयापि वस्तुसम्बन्धाभावान्न प्राप्तिः । एवं यद्यपि सर्व्वस्य विकल्पस्य स्वप्रतिभासेऽनर्थेर्थध्यवसायेन वृत्तेर्भ्रान्तत्वं तथापि यो वस्तुसम्बन्धवान् स तत्प्रापको नेतर इति युक्तो विभाग : ॥ ( ८० )
ननु यदि ज्ञाननिविष्टानामर्थानां सामर्थ्यादिव्यवहारस्तदा बाह्येषु स न स्यादित्याह ।
तत्रानेकोपि कार्यैका न तत्कार्यपराश्रयैः । ज्ञानाभिधानैरेकत्वात् व्यवहारः प्रतार्यते ॥ ८१ ॥
तत्र गवाश्वादिव्यक्तिषु मध्येऽनेकोपि सा ( ? शा ) वलेयबाहुलेयादिरे - कमभेदावसायादिकार्यं यस्य ज्ञानाभिधानैः कीदृशैस्तद्वाहाद्यकार्यं कार्यं न भवति येषां कर्कादीनां तेभ्योऽन्यता तद्व्यवच्छेदः स आश्रयो विषयो येषां तैरेकत्वेन व्यवहारं प्रतार्यते प्राप्यते । शावलेयादिविजातीयव्यावृतौ व्यावृत्त्याश्रयैः शब्दज्ञानैरेकत्वेन व्यवह्वियते इत्यर्थः ॥ ( ८१ )
ततश्चैकोप्यनेककृत् तद्भावपरिदीपनात् । अतत्कार्यार्थभेदेन नानाधर्मः प्रतीयते ॥ ८२ ॥
तत चैकोपि दीपादिरालोकान्धकारापनयनवर्तिदाहाद्यनेक कार्यकृत् ' ( 1 ) 63b तद्भावस्यानेककार्यकारित्वस्य परिदीपननिमित्तमतत्कार्यार्थेभ्य एकैककार्यसमर्थेभ्यो भेदेन व्यवच्छेदेन नानाधर्मः प्रतीयते शब्दविकल्पैः । यथाऽनालोक - कारिभ्यो भेदादालोककृदनन्धका रहन्तृभ्यो भेदादन्धकारहन्ता दीप उच्यत इत्यादि ॥ ( ८२ )
यथाप्रतीति कथितः शब्दार्थोसावसन्नपि । सामानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥८३॥
*
१ स्थिरादिविकल्पे तत्र प (1) रंपर्येणापि वस्त्वसम्बन्धात् वस्तुनोऽस्थिरादिअधिगन्तव्ये ।
त्वाद् ।
३ तथेत्यन्तरं सामान्यव्यपेक्षया सामानाधिकरण्यविशेषणविशेष्यभावव्यवहारश्च बाह्येष्वेवेति दर्शयन्नाह ।