________________
6za.
प्र० वा० वृत्तौ (३ परिच्छेदः)
(ग) अपोहस्य विजातीयव्यावर्त्तकत्वम्
अपोहविषयत्वे शब्दवि कल्पयोः सामान्यं विशेषणविशेष्यभावं धर्मिधर्मभावञ्च व्यवस्थापयितुमाह ।
तत्स्वभावविकल्पा धीस्तदर्थे वाप्यनर्थिका । विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते ॥७५॥
३१६
तस्योत्पलादेः शब्दादेश्च स्वलक्षणस्य स्वभावग्रहादूर्ध्वं या विकल्पिका धीः प्रजायते वस्तुतोऽनर्थकापि तदर्थेव स्वलक्षणविषयेवाऽध्यवसायानुरोधात् परमाsaभ्यो अर्थेभ्यो भेदो व्यावृत्तिस्तत्र निष्ठाऽवस्थानं यस्या सा तथा विजातीयव्यावृत्तिविषयेत्यर्थः ॥ ( ७५ )
तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः । व्यावृत्तमिव निस्तत्वं परीक्षानङ्गभावतः ॥७६॥ अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः । अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥७७ तस्यां विकल्पबुद्धौ यद्रूपं य आकारो दृश्यविकल्पयोरेकत्वाध्यवसायाभ्यासपाठ्यविबाह्यमपि बाह्यमिवासाधारणमप्येकमिव सर्व्वव्यक्तिषु सदृशवृत्तेः । या व्यक्तयो दृश्यन्ते तथा तथैवाध्यवसायात् व्यावृत्तमिव विजातीयव्यावृत्तवस्त्वमेदेन निश्चयात् । न च तद्व्यावृत्तं गोरूपत्वप्रसङ्गात्। अत एव निस्तत्वं निःस्वरूपं यथाभूतरूपतिरोधानेनान्यथाध्यवसायात् । तथा चापरीक्षाया विचारस्यानङ्गभावादनाश्रयान्निस्तत्वं तत् " द्विविधं त्वर्थी ज्ञानं वा । न चैतत् तथा । यतः कारणात् तेन कल्पितेन सामान्यरूपेण तेऽर्था एकार्थक्रियाकारिणोऽतत्कार्येभ्यो
* तेन यद् [ कुमारिल ] भट्टः (1) "अन्य निवृत्तिमात्रापोहे अनीलादिव्यावृत्तावनुत्पलाविष्यावृत्यभावः । एवमनुत्पले ततो न विशेषणविशेष्यता । नापि सामानाधिकरण्यमपोहयोर्भेदात् (!) न च स्वलक्षणं शब्दविषयः । अपोहयोब्वऽप्रतीतेः ।" तन्निरस्तं । बाह्याभिन्नस्य स्वाकारस्य शब्दादिविषयत्वेनेष्टत्वात् (1) तेन नीलोत्पलादिशब्दे शबलार्थाभिधानमेव ।
यतो बुद्धिप्रतिभासि रूपं निस्तत्वमतस्तद्विषयो
★ परीक्षाङ्ग । व्यवहारोप मिथ्यार्य इत्याह ।
• यतो विजातीयाद् व्यावृत्तिरूपवन्तः । यथाऽनुत्पलाद् व्यावृत्तिरुपिण उत्प'लाः ।