________________
सामान्यचिन्ता भासिनो मिथ्याविकल्पस्य बीजं हेतुरितरस्मादतत्कार्यकारिणो भेवो व्यावृत्तिः। यर्थिका संज्ञा शब्दोपि विजातीयव्यावृत्तौ संकेत्यते तद्विषयश्च ॥ (७१)
(ख) भिन्नानामभिन्न कार्यम् कथं पुनभिन्नानामभिन्नं कार्यमित्याह। ..
एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने ।
केचिद् भेदेपि नियताः स्वभावेनेन्द्रियादिवत् ॥७२॥ एकप्रत्यवमर्श एकाकाराध्यवसायोर्थज्ञानं रूपादिज्ञानं च तवाविर्यस्य ज्वरहरणादेः। तस्यैकार्थस्य साधने करणे स्वभावेन प्रकृत्या स्वहेतुदत्तया भेदेषि भेदाविशेषेपि केचिद् बाहुलेयादयो नियता न कर्कादय इन्द्रियादिवत् । यथा चारूपालोकमनस्कारादय एव भेदाविशेषेपि रूपविज्ञानं जनयन्ति न श्रोत्रशब्दादयः ॥ (७२)
एतदेव दृष्टान्तरेण दृढयन्नाह । . स्वरादिशमने काश्चित् सह प्रत्येकमेव वा।
दृष्टा यथा वोषधयो नानात्वेपि न चापराः ॥७३॥ ज्वराविशमने कर्तव्ये काश्चित् गूडूच्यादयः सह परस्परं प्रत्येकम्वा वृष्दा। नानात्वेपि न चापराः। यथा गूडूचीमुस्तादयो भिन्नास्तथा त्रपुषादयोपि। तथापि . काश्चिज्ज्वरं शमयन्ति न साः। एवं शाबलेयादय एकप्रत्यवमर्श कुर्वन्ति। न कर्कादयः॥ (७३)
- स्यादेतत् । तास्वोषधीषु सामान्यं किञ्चिदस्ति तत् ज्वरादिशमनं करोति। तन्नैष दृष्टान्त (:।) इत्याह। __ अविशेषान सामान्यमविशेषप्रसङ्गतः।
तासां क्षेत्रादिभेदेपि ध्रौव्याञ्चानुपकारतः ॥७४॥ अविशेषात् सामान्यस्याक्रियावस्थातः क्रियावस्थायां न सामान्य काञ्चिदर्थक्रियामुपकल्पयति। तासां गूडूच्यादिव्यक्तीनां क्षेत्रादिभेदेपि सामान्यस्य कार्यिणोऽविशिष्टत्वात् ज्वरशमनादेः कार्यस्याविशेषप्रसङ्गतः चिरक्षिप्रप्रशमनाद्यभावासक्तेः।। ध्रौव्याच्चानुपकारतः। सामान्यस्य नित्यत्वात्। अन्येभ्यः सहकारिभ्य उपकाराभावात् सकृत् तत्कार्याणि स्युः ॥ (७४) ।
'वाहबोहायकारिणः।
पूर्वेण सह द्वन्तः। । अर्थज्ञानाविदृष्टान्तः। ४ असत्यप्येककार्यनियते सामान्ये। प्रसङ्गात् ।