________________
३१४
प्र० वा० वृत्तौ (३ परिच्छेदः)
१ तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । भेदिन इवाभान्ति भेदा' रूपेण केनचित् ॥ ६८॥
तया संवृत्त्या स्वयमात्मना भेदिनः स्वस्वभावव्यवस्थिता भावाः संवृतनानात्वाः स्थगित भेदाः केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिनाऽभेदिन इवाभान्ति । (६८)
१ तस्या अभिप्रायवशात् सामान्यं सत्प्रकीर्तितम् । यथा तयोपकल्पितं तदसत् परमार्थतः ॥ ६९ ॥
तस्या बुद्धेः सामान्यरूपतयाऽध्यवसिताकारायाऽ (? अ) भिप्रायवशात् सामान्यं सत् प्रकीर्तितं । विजातीयव्यावृत्तेर्व्वस्तुष्वभावात् । तदुपकल्पितं गोत्वादि सामान्य रूपेण' बुद्ध्याकारमध्यवश्य ( ? स्य ) न्ति व्यवहर्त्तारः । अध्यवसायानुरोधेन च सामान्यं सदित्युच्यते ( 1 ) यथा वस्तुत्वेन तत् सामान्यं तया संवृत्तिबुद्धया कल्पितं तथाऽसत् परमार्थतः।। (६९)
तदेवासत्त्वमाह ।
२ व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥७०॥
व्यक्तयस्तावन्न परस्परमनुयन्ति भेदात् । तास्वनुयायि च किञ्चिन्न भासते व्यक्तिमात्रवेदनात् । यच्च ज्ञानादव्यतिरिक्तमाकार स्वरूपं तत्कथमर्थान्तरं ज्ञानान्तरं वा व्रजेत् स्वलक्षणरूपत्वादस्य ।। ( ७० )
३ तस्मान्मिथ्याविकल्पोयमर्थेष्वेकात्मताग्रहः । इतरेतरभेदोस्य बीजं संज्ञा यदर्थिका ॥ ७१ ॥
तस्मादर्थरूप’स्य ज्ञानरूपस्य च सामान्यस्य योगान्मिथ्याविकल्पोयमर्थशून्य एष विकल्पोयमर्थेष्वेकात्मताया: सामान्यरूपताया ग्रहः । अस्य चैकात्मतया प्रति
१ PH. भावाः
व्यतिरिक्ते ।
३ विकल्पप्रतिभासेपि दोषश्चेत् समानाकारो भात्येव यथा प्रतिभासञ्चास्त्येवावस्तुत्वात् ।
8
'विकल्पबुद्ध्याकारोस्तु सामान्यं स च ज्ञानवद् वस्तुसन्नित्यत्राह ।
५ बाह्यव्यक्तेर्ज्ञानस्य चाव्यापने स्यात् सामान्यं ।
६
एक प्रत्यवमर्षज्ञानसाधने नियता इति साध्यमुक्तम् ।