________________
सामान्यचिन्ता
३१३ अस्माकं यद्वचो यथा धर्मान्तरस्य प्रतिक्षेपेणाप्रतिवाचकत्वेन वक्तृभिनियम्यते विशेषेण व्यवस्थाप्यतेऽनपेक्षितवाह्या थं संकेतमात्रानुरोधित्वात् तद्वचस्तथा वाचकमिष्टमिति न चोद्यावकाशः॥ (६५)
दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः।
खस्य स्वभावः खत्वं वेत्यत्र वा किं निबन्धनम् ॥६६॥ यस्य तु वास्तव एव शाब्दो व्यवहारस्तस्य दाराः षण्णगरी'त्यादावादिशब्दात् गृहा विंशतिरित्यादौ च यथाक्रममभिन्ने भिन्ने च वस्तुतो भेदाभेदयोर्बहुवचनैकवचननिमित्तयोर्व्यवस्थितेः। खस्य स्वभावः खत्वं वेत्यत्र धर्मिधर्मभेदस्य किम्वा निमित्तं न किञ्चन। न ह्येकस्या (:) स्त्रिया बहुत्वं षण्णां नगराणां वा एकत्वमाकाशस्य स्वभावो भिन्नः सामान्यं वास्ति । अथ चास्ति शब्दवृत्तिस्ततः कल्पित एव तद्विषयो वक्तव्यः॥ (६६) • यदि सर्वतो व्यावृत्तस्वभावा भावा न तेषु सामान्यमस्ति कथं गोत्वमित्यादिसामान्यप्रतीतिरित्याह। १ एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ।
रूपं परेषां व्यावृत्तं सा धीः संवृतिरुच्यते ॥६॥ भेदिनः सर्वतो व्यावृत्तान् भावानाश्रित्य परम्परापातेभ्यः उत्पद्य यया धिया एकार्थप्रतिभासिन्या एकार्थाध्यवसायस्वाकारया स्वरूपेण स्वप्रतिभासेन परेषां स्वलक्षणानां रूपं सर्वतो' व्यावृत्तं संवियते प्रच्छाद्यते सा" संवृतिरुच्यते॥ (६७)
१ क्रियातो गुणतो वा समाहारो द्रव्याश्रितः।नगरन्तु विजातीयानारम्भादद्रव्यं ।
२ भेदान्तरादिना एतदुक्तम्भवति। अनश्वत्वामहिषत्वादिषु भेदान्तरेष्वेकपिण्डनिष्ठेषु सत्स्वप्यनपेक्षितभेदान्तरमश्वव्यवच्छेदलक्षणमनश्वत्वमात्रमनश्वत्वशब्दस्य धर्मवचनस्य संकेतकारणं। अत्यक्तभेदान्तरन्तु तदेवानश्वत्वं अनश्व इति धर्मिवचनस्य संकेतभेदे कारणं (1) एतच्च पूर्वश्लोकावतारणेन ज्ञेयं ।
३ तदन्यव्यतिरेकिणः पदार्थानाश्रित्य।
४ तदेवं समारोपपक्षे परोक्तं दूषणं परिहत्यान्यव्यावृत्तिपक्षे तानभ्युपगमादेवं व्यावृत्ताभावा एकत्वेनाध्यवसिताः सामान्यमित्युक्त्वा बुद्धयाकारे सामान्ये परदूषणमपनयति। तत्तु बुद्धयाकारश्च बुद्धिस्थो नार्थबुद्धयन्तरानुगः। नाभिप्रेतार्थकारी च सोपि वाच्यो न तत्वतः।। अनुप्रवेशे सामान्यं न स्यादित्यव्यतिरिक्तदूषणं।
'प्रकृत्या एकाकारपरामर्शहेतून् भावानाश्रित्य विकल्पबुद्धिरेकाकारोत्पद्यमाना यं एकमाकारं भावेष्वर्ण्ययति स एव बुद्ध्याकारः शब्दप्रवृत्यङगः सामान्यं सिद्धान्तिनापि बीजमस्य वाच्यमनाश्रयस्यानुत्पत्तेरित्याह।
४०