________________
३१२
प्र० वा० वृत्तौ (३ परिच्छेदः)
जिज्ञापयिषुरर्थ तं तद्धितेन कृतापि वा । अन्येन वा यदि ब्रूयात् भेदो नास्ति ततः परः ॥६२॥
तथा व्यवहर्त्ता जिज्ञापयिषुरर्थं तं साङ्केतिकं भेदं तद्धितेन कृतापि वा ' पाचकत्वमस्य पाचकोयम्पाकः पाक्यो वेत्यादि । अन्येन वा स्वयंकृतेन समयेन यदि ब्रूयात् ( 1 ) तथापि ततो भेदप्रतिपादकात् तद्धितादेर्भेदः परो वास्तवो नाति ॥ (६२)
तेनान्यापोहविषये तद्दोषोपवर्णनम् ।
1*
प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः ॥६३॥
तेन व्यावृत्तिव्यावृत्तयोरभेदेनान्यापोहविषये जातिमान् शब्दवाच्य इति पक्षः तद्वत् पक्षभूर्दोषोऽन्यापोहेपि स्यादिति । तद्दोषोपवर्णनं प्रत्याख्यातं । तद्वत् पक्षो हि जातिमभिधाय शब्दस्तद्वति वर्त्तत इति तद्वचने स्वातन्त्र्यमस्य न स्यात् सामानाधिकरण्यञ्च न भवेत् ( 1 ) गौः शुक्ल इति जातेरशुक्लत्वात् (1) न चोपचाराश्रयेण स्वातन्त्र्यं सामान्याधिकरण्यञ्चास्खलद्गतियुक्तमित्यादि जातितद्वतोः पृथक्त्वे हि स्याद् दोष एषः । न तु व्यावृत्तिव्यावृत्तिमतोर्भेद इति नात्र तत्पक्षोक्तदोषः ।। (६३)
यदि व्यावृत्तितद्वतोर्न भेदस्तदा गोर्गोत्वं शुक्लत्वसास्नादिमत्वादयश्चेति षष्ठीवचनभेदादि न प्राप्नोतीत्याह ।
येषां वस्तुवशा वाचो न विवक्षापराश्रयाः । षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥६४॥
येषां बाह्यानां मते वस्तुवशा वस्त्वायत्ता वाचो न विवक्षार आश्रयः कारणं यासां तास्तथा। षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ (६४) यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितबाह्यार्थं तत् तथा वाचकं वचः ॥६५॥
' जातिगुणक्रियासम्बन्धैश्चतुष्टयी वृत्तिरुक्तानेनैव । * तद्वत्पक्षोपवर्णनम्।
२ जाति ।
शब्दस्य ।
४ कथमिदानीमेकस्याननुगमादन्यव्यावृत्तिः सामान्यं । स्वलक्षणानुभवोत्तरमेककार्येष्वेकमाकारमादर्श (य) न्विकल्पः सामान्यं अतत्कार्येभ्यो भिद्यमाना अर्थाः सामान्यादिव्यवहारविषय इत्यन्यापोहविषयत्वं ।