________________
सामाग्यचिन्ता क. न्यायमीमांसामतनिरासः
.. (क) व्यावृत्तस्वभावा भावाः । यदि भ्रान्तिनिवृत्त्यर्थ गृहीतेप्यन्यदिज्यते । १ तव्यवच्छेदविषयं सिद्धन्तद्वत् ततोऽपरम् ॥५५॥ . सर्वात्मना विकल्पेन गृहीतेपि वस्तुनि भ्रान्त्या तथा न निश्चय इति यदि भ्रान्तिनिवृत्त्यर्थमन्यत् प्रमाणान्तरमिष्यते (1) तद्भ्रान्तिनिवर्तकं प्रमाणान्तरं व्यवच्छेदविषयं सिद्ध' भ्रमारोपितत्वापोहविषयत्वाद्। ततो भ्रान्तिनिवर्तकादपरं यत् पूर्वमुत्पन्नम्वस्तुविषयमिष्टं तद्वदपोहविषयं सिद्धं ॥ (५५) कस्मादित्याह (1)
तद्विपक्षसमारोपविषये यदि निश्चयैः।
अनिश्चीयते न यद् रूपं तत्तेषां विषयः कथम् ॥५६॥ . अविद्यमानान्यसमारोपे विषये वृत्तः। विकल्पो हि व्यवच्छेदविषयं निश्चिन्वन्तद्विपक्षसमारोपविषये न भवति । किन्तु तद्वयवच्छेदनिश्चयारोपमनसोबाध्यबाधकमावत इत्युक्तं। . -- अपि च निश्चयरेकाकारप्रवृत्त यत् रूपं न निश्चीयते तत्त्वाविषयः कथमुच्यते। निश्चितञ्चाप्रतिपन्नं चेति विप्रतिसि (?षि)ढं। यदि कृतकत्वनिश्चयेऽनित्यत्वाद्यपि निश्चितं कयं तस्याप्रतिपत्तिः। कृत (क)त्वस्यापि वा माभूत् ॥ (५६) .
एवन्तर्हि प्रत्यक्षगृहीते वस्तुनि निश्चयानिश्चयो न स्यातामित्याह। . प्रत्यक्षेण गृहीतेपि विशेषेशविवर्जिते ।
यद्विशेषावसायेस्ति प्रत्ययः स प्रतीयते ॥१७॥ - प्रत्यक्षेण गृहीतेपि विशेषे स्वलक्षणे सर्वतो व्यावृत्तेऽशर्मागविवजिते यस्य - विशेषस्य व्यवच्छेदस्यावसायेस्ति प्रत्ययः सहकारी प्रकरणाभ्यासपाटवा दिः स
'उत्पित्सुसमारोपनिषद्वारेण।
यदेषां स्वविषयनिश्चयनमेव स्वार्षे वृत्तिः ।