________________
३०८
प्र० वा० वृत्तौ (३ परिच्छेदः)
द्रव्यस्य सम्बन्धादेकस्योपाध्युपकारकत्वस्य ज्ञाने द्वयस्य ग्रहः स्यात् । एकनियता प्रतीतिनं भवेदित्यर्थः ॥ (५२)
fe व्यादुपाभ्युपकारिकाः शक्तयो भिन्ना एव द्रव्यग्रहणे तासामग्रहणात् न सर्वोपाधिग्रहणप्रसङ्ग इत्याह ।
धर्मोपकारशक्तीनां भेदे ताः तस्य किं यदि । नोपकारस्ततः तासां तथा स्यादनवस्थितिः ॥ ५३ ॥
धर्माणामुपाधीनां उपकारस्य निमित्तभूतानां शक्तीनां द्रव्याद् भेदे स्वीक्रियमाणे ताः शक्तयस्तस्य द्रव्यस्य किं कस्मात् (1) यदि नोपकारस्ततो द्रव्यात् तासां शक्तीनामुपकारमन्तरेण सम्बन्धेऽतिप्रसङ्गात् ( 1 ) अथ तासां शक्तीनां द्रव्येणोपकारः क्रियते स्वरूपेण तदा शक्त्युपकारत्वस्य ग्रहणाच्छक्तीनां ग्रहः । तद्ग्राच्च सर्वोपाधिग्रहप्रसङ्गः तदवस्थः।
61b
स्मादेतत् (1) शक्तीरपि भिन्नाभिः शक्तिभिरुपकरोति तथा स्यादनवस्थितिः । तथा हि यास्ताः शक्त्युपकारिकाः शक्तयस्ता द्रव्यस्योपकारद्वारा 'द् ( ? ) यदीष्टा-. स्तवास्वरूपेोपकारकत्वे सम्बपाविग्रहप्रसङ्गभयादन्याः शक्तय एष्टव्याः । तथा चानवस्था व्यक्ता । (५३)
उत्तम संगृह्णन्नाह ।
कोपकारके ग्राह्येऽदृष्टाः तस्मिन्न सन्ति ते । सर्वोपकारकं ह्येकं तद्ग्रहे सकलग्रहः || ५४ ||
एकस्योपाधेरुपकारके द्रव्ये ग्राह्येऽभिमते तत एकोपाध्युपकारकद्रव्यस्वभावादपरे उपाध्यन्तराणामुपकारका उपकारशक्तिभेदा दृष्टे तस्मिन्नेकोपाध्युपकरके द्रव्येऽदृष्टा ये ते न सन्ति (1) एकमेव हि रूपं सर्वोपाध्युपकारकमतस्तस्यैकोपाधिमतो ग्रहे सकलोपाधिग्रहः स्यात् ॥ (५४)
' यवोपाधिष्वेव शब्दादिवृत्तिस्तदा नोक्तो दोषः किन्तु शब्दाद्यैरनाक्षे-पादुपाधिमति प्रवृत्तिर्न स्यादिति व्यर्थः शब्दप्रयोगः । अर्थक्रियाश्रयो हि व्यवहार उपाध (य) श्चात्र व्यवहारेऽसमर्थाः (1) समर्थश्चोपाधिमान्नोच्यते (1) किञ्च (1) निश्चयगृहीतेप्यर्थे भ्रान्तिनिवृत्यर्थं प्रमाणान्तरमिच्छता निश्चयविषयश्च न च निश्चित इत्यन्युपेतं स्यात् अन्यथा भ्रान्त्ययोगात् (1) तच्चायुक्तमित्याह ।