________________
. ३०७
सामान्यचिन्ता सर्वात्मना कृते प्राहे को भेदः स्यादनिधितः।
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ।।५२॥, ....... सर्वात्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्ये को भेद उपाधिविशेषः स्यादनिश्चितः। यथा द्रव्यमेकमुपाधिमुपकरोति। तथा परानपि (1) तत एकोपाध्युपकारकत्वे विधिरूपेण गृह्यमाणे' सर्वोपाध्युपकारकत्वं गृह्येत। तथा च सोपाधिग्रहणप्रसङ्गः। न हि यत्सापेक्षं यदूपं तद ग्रहणे तद् गृहीतुं शक्यं ॥ __ ननु धूमापेक्षं वह्नः कारणत्वं न च तद्ग्रहे धूमग्रहः। नतद् युक्तं (1) तथाहि (1)
किं पुनः कारणत्वमिष्टं वह्नर्यद्यविद्यमानत्वाद् धूमात् पूर्वकालभाविता। धूमासाहित्यं वर्तमानकालसत्ता। न तद् धूमापेक्षं स्वकारणात् तथोत्पत्तेः । घूममन्तरेणैव च भावात् । न च तद्ग्रहे धूमग्रहो विरुद्ध त्वात् । न हि धूमग्रहणे तस्मात् • प्राग्भावित्वस्य तदसाहित्यस्य च ग्रहणं । अथ धूमस्यायं हेतुरिति निश्चयविषयत्वं कारणत्वमिष्टन्तदाऽस्त्येवेदृशकारणत्वस्य ग्रहे धूमप्रतीतिरुममप्रतीत्याकारत्वादस्य निश्चयस्य द्वयान्वयव्यतिरेकग्रहणसापेक्षत्वाच्च ॥
ननु च गृहीततदुत्पत्तेरग्निमात्रदर्शनात् कारणत्वप्रतीतिनं च तथा धूमप्रतीतिः॥
(सिद्धान्ती।) न च तत्र प्रत्यक्षात् कारणत्वस्व प्रतीतिः किन्त्वग्निरूपमात्रस्य (1) अन्यथा सर्वस्य तद्दर्शिनः कारणत्वप्रतीतिप्रसङ्गः। किन्तु व्याप्तिग्रहसापेक्षा आनुमानिकी तत्प्रतीतिः। तथा हि गृहीततदुत्पत्तरेवेयं भवति नान्यस्य। तदुत्पत्तिग्रहे च यदेवं रूपं तदेतत्कारणमिति गृहीता व्याप्तिरनुमानप्रतीतौ च धूमकारणं वनिरिति व्यवच्छेदद्वयमन्योन्यसापेक्ष प्रतीयत एव इत्यलं तत्प्रसङ्गेन। न ह्यनुत्खातितकार्यः कारणत्वनिश्च यः । अत्यन्तमभ्यासाच्च व्याप्तिग्रहसंस्कारस्य प्रबुद्धत्वादपेक्षा नास्तीत्यतत्वविवेकिनां नानुमानत्वप्रबोषः। न ह्यनुमानमहमित्युत्पन्नमनुमानमुच्यते। किन्तु त्रिरूपलिङ्गजमनुमेयविषयं कारणत्वज्ञानञ्च तादृशमेव। द्रव्यन्तु येनैव रूपेण एकमुपाधिमुपकरोति तेनैवापरानपीत्येकोपाध्युपकारकत्वे गृह्यमाणे नानेकोपाध्युपकारकत्वस्य प्रहणात् सर्वोपाधिग्रहणप्रसङ्गः परस्परसापेक्षत्वात् । ततश्च तयोरुपाधिकलापतदुपकारकत्वयोरात्मनि सम्बन्धात् ।
'सति सम्बन्धाद व्यग्रह उपाध्यपाधिमतोः स्वाग्रहणे स्वाम्यपहवत्। कन्तहि तत्त्रतीतिरित्याह।