________________
३०६
प्र० वा० वृत्तौ (३ परिच्छेदः) साल्म-निश्चयारो' पमनसोर्बाध्यबाधकभावतः। समारोपस्य विवेके व्यवच्छेदेऽस्य निश्चयस्य प्रवृत्तिरिति गम्यते ॥ (४८) तस्माद् (1)
यावन्तोऽशसमारोपा निश्चयास्तन्निरासतः।
तावन्त एव शब्दा भिन्नव्यवच्छेदगोचराः ॥४९॥ यावन्तोऽशस्य' धर्मस्य समारोपास्तस्य निरासनिमित्तं विनिश्चयाः शब्दाश्च तावन्त एव (1) तेन ते निश्चयाः शब्दाश्च भिन्नव्यवच्छेदगोचराः॥ (४९)
अन्यथा वस्तु विषयीकुरुत एकेन वा धिया।
एकत्र नान्यो विषयोस्तीति स्यात् पर्यायता ॥५०॥ अन्यथा यदि शब्दनिश्चयौ सर्वात्मना वस्तु विषयीकुरुतः तदेकेन शब्देन बुद्धया वा विकल्पिकया व्याप्ते सर्वात्मना विषयीकृते वस्तुन्येकत्र नान्योऽप्रतिपन्नो विषयोस्तीति पर्यायता शब्दानां स्यात् विकल्पानाञ्चकविषयता भवेत्॥ (५०)
ननु द्रव्यादुपाधयः परस्परञ्च भिन्नास्तन्निमित्ता विकल्पाः शब्दाश्च तेषु । तदाधारे वा द्रव्ये वर्तन्त इत्याह। १ नानोपाधिविशिष्टस्य भेदिनोर्थस्य ग्राहिका।
उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे ॥५१॥ यस्यापि नै या यि का देते नानोपाधेव्यत्वाद्यनेकधर्मविशिष्ठ स्यात एवोपाधि भेदाद् भेदिनोर्थस्य ग्राहिका विधिरूपेण धीः (1) तस्यापि मतेन नानाप्रकाराणामुपाधीनामुपकारस्याङ्ग याःशक्तयस्ताभ्योऽभिन्नात्मन उपाधिमतो द्रव्यस्य निश्चयज्ञानेन ग्रहे । (५१)
'प्रत्यक्षपृष्ठभाविन्यारोपे। २ यतो वस्त्वध्यवसायेन शब्दादेवत्तिः न वस्तुस्वरूपग्रहेण सतः। ३ वैशेषिकादेः भिन्नं पारमार्थिकं धर्मर्मित्वं निन्दति । ४ घटादे। ' उपाधिषु वा शब्दधियौ वर्तते इति न पर्यायताप्रसङ्गः। ' नानाभेदयोगात् स्वयमभिन्नस्य। • प्रत्युपाधिभिन्ना। 'दूषणमाशङक्य परिहरति कारणं।