________________
सामान्यचिन्ता
चः प्रसज्यते ' । न खलु प्रत्यग्रदृष्टं वस्त्वन्तरं सम्यलिङ्गाभ्यां विषयीक्रियते किन्त्वन्यव्यवच्छेदः। एकस्मिँश्च व्यवच्छेदे सिद्धेप्यसिद्धं व्यवच्छेदान्तर लिङ्गान्तरतः शब्दान्तरतश्च साध्यत इति न कश्चिद् दोषः ।। (४५)
१ तस्मादपोहविषयं लिङ्गमिति प्रकीर्तितम् ।
अन्यथा धर्मिणः सिद्धौ किमतः साधकं परम् ॥४६॥
तस्मादाचार्येणापोहविषयं लिङ्गमिति प्रकीर्तितं । लिङ्गमुपलक्षणं शब्दश्च । अन्यथा यदि वस्तुविषयं " लिङ्गं तदा धम्मिनः सर्वात्मना प्रत्यक्षतः सिद्धौ किमतो धर्मिणः परमसिद्धमस्ति यत्प्रसाधकं लिङ्गम्प्रमाणं स्यात् ॥ (४६)
कचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् । कथमन्यापोहविषयं तन्मात्रापोहगोचरः ॥४७॥
३०५
ननु क्वचिनीलादावसमारोपितोऽन्यो विपरीतांशो यस्मिन् । तस्मिन् प्रत्यक्षेण वृष्टे यज्ज्ञानमलिङ्गजं विकल्पकं सामान्यविषयं भवति । तदारोपाभावात् । कथमन्यापोहविषयं । आह तन्मात्रस्यानीलमात्रस्यापोहो विजातीयाद् व्यावृत्ति-र्व्यवच्छेदः स गोचरो यस्य तत्तथा । नीलविकल्पस्थानीलव्यवच्छेद एवं विषय इत्यर्थः ॥ (४७)
कस्मा देवमित्याह (1)
निश्चयारोपमनसोर्याध्यबाधकभावतः । समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ ४८ ॥
१ . न विकल्पानां स्वरूपेण बाह्यो प्राह्मोपि तु स्वाकारेण सर्हकीकृत एव बाह्य विषयः स चासत्योऽपोह्यतेऽनेनान्यवित्यपोहः ।
* अकस्माद् धूमावग्निप्रतिपत्तावपि विपर्यासोस्ति । अग्निमन्तं प्रदेशमनग्निमत्वेन (धूमदर्शनात् प्राक् दर्शने साग्निदेशादन्योयमिति) ग्रहात् तस्मान्न धर्म्मबुद्धिर्वस्तुप्राहिणीत्यपोहविषया लिङ्गादनुमेषमनुसरन्तवश्यं संशयितो विपर्यस्तो वा स्यात् ।
* उक्तेन प्रकारेण न साक्षात् । 8 नापोहविवयं । स्वाकाराभेदेन गृछत्
स्वलक्षणं
प्रत्यक्षव्यापारमात्मन्यारोपयति । बाह्याध्यवसाय एव योज्यते तेन नीलमिति मीलसजातीये विहितं सर्व्वमन्यद् व्यवच्छिनत्ति । रूपनिश्चयेपि क्षणि (कत्वा) निश्चयात् ।
३९