________________
३०४ प्र० वा. वृत्तौ (३ परिच्छेदः)
खन्मतेपि प्रत्यक्षेण दृष्टे धर्मिणि प्रमाणान्तरवैफल्यं स्यात् (1) नेत्याह। १ नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥४३॥ दृष्टे सर्वथा वस्तुनि नो चेद् भ्रान्तिनिमित्तेन सादृश्यादिना संयोज्यतारोप्येत गुणान्तरं धर्मान्तरमसदेव' शुक्तौ वा शुक्ताविव रूपसाधर्म्यदर्शनात् भ्रान्ति6ob निमित्ताद् रजताकारस्तदा सर्वथा वस्तुनिश्चयात् प्रमाणान्तरशब्दान्तरवैफल्यं स्यात् । (४३) एतदेवाह (1)
"तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः।
'भ्रान्तेर्न निश्चय इति साधनं संप्रवर्तते ॥४४॥ ... तस्माद्द ष्टस्य भावस्य दृष्ट एवाखिलो गुणः धर्मः। तथापि भ्रान्तेविप
रीताकारारोपिकाया न निश्ची 'यत इत्यारोपितव्यवच्छेदार्थ साधनं शब्दान्तरस्व संप्रवर्तते । (४४) a त केवलं प्रत्यक्षाद् वस्तुग्रहे साधनान्तरशब्दान्तर'वैफल्यं किन्त्वनुमानादपीत्याह।
वस्तुमहेनुमानाच धर्मस्यैकस्य निश्चये।
सर्वप्रहो बपोहे तु नायं दोषः प्रसज्यते ॥४५॥ वस्तुग्रहेनुमानाच्च धर्मस्यैकस्य कृतकत्वादेः प्रत्ययभेदाभेदित्वादिकृते निश्चये सर्वस्यानित्यत्वादेहः स्यात् । एकरूपत्वात्। कृतकत्वादिसाधनान्तरवैयथ्यं । अपोहे त्वन्यव्यवच्छेदे शब्दलिङ्गविषये स्वीक्रियमाणे नायं प्रमाणान्तरादिवैफल्य- .
विकल्पेन सदृशापरोत्पत्या भ्रान्त्या नारोप्येत स्थिरत्वादि (ति) चेत् । अनुभूतानिश्चिते तु प्रमाणान्तरं प्रवर्तत एवारोपनिवृत्तये। तच्च लिङ्ग स्वव्यापकं विषिरण निश्चितत्वादन्यसमारोपं निषेषति। अन्यथा समारोप एव व्यावृतेरल्पवृत्तिर्न स्यात्। 'अनंशस्यैकदेशदर्शनायोगात्।
दृष्टोपि। • अपोझतेऽनेनेति बाह्यतया आरोपित आकारः। अपोह्यतेस्मिन् स्वलमाणम्बापोहः।