________________
. . . प्रमाणलक्षणम् अनुमानञ्च व्याप्तिग्रहणसापेक्षं व्याप्तिश्च प्रत्यक्षेण पुरोवतिरूपमात्रग्राहिणा कथं' शक्यग्रहा। देशकालव्यक्तिव्याप्त्या च व्याप्तिरुच्यते यत्र यत्र धूमस्तत्र तत्राग्नि- 3a रिति प्रत्यक्षपृष्ठजश्च विकल्पो न प्रमाणं प्रमाणव्यापारानुकारी त्वसाविष्यते । यत्रायमध्यक्षव्यापारमतिक्रम्याधिकमारोपयति तत्र न प्रमाणं अमूलकत्वात्तस्य प्रमाणप्रमेयस्य । विजातीयव्यावृत्तेरध्यक्षेण दृष्टत्वादस्त्येव मूलमिति चेत् न सजातीयव्यावृत्त्या विशेषितत्वात्तस्याः । अन्यथा शाबलेयनाशम्प्रतियता प्रत्यक्षेण गोमा त्रनाशो व्यवस्थाप्येत । अनुमानाच्च व्याप्तिग्रहणेऽनवस्थापत्तिः । अत आह । स्वरूपस्य स्वतो गतिः॥
स्वरूपमात्रं स्वतो गम्यते न प्राप्यरूपसापेक्ष प्रामाण्यन्नाम किञ्चिदस्ति । कथन्तर्हि तद्व्यवस्थेत्याह । प्रामाण्यम्व्यवहारेण । .
- सांव्यवहारिकस्येदं प्रमाणस्य लक्षणं संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोनवगीतः सर्वस्य । साध्यसाधनयोरेकव्यक्ति'दर्शने समस्ततज्जातीयतथात्वव्यवस्थानं सम्वा दमवधारयन्ति व्यवहारः। तदनुरोधात् प्रामाण्यम्व्यवस्थाप्यते । तत्त्वतस्तु स्वसम्वेदनमात्रमप्रवृत्तिनिवृसिकं॥ .
ननु यत्र तावदभ्यस्तसाधनज्ञानादिषु निरस्तभ्रमा व्यवहारिणस्तेषां स्वत एव प्रामाण्यनिश्चयः यत्त्वनभ्यस्तसाधनं ज्ञानं तस्यापि व्यवहारेणेति निष्फलं शास्त्रप्रणयनमित्याह।
शास्त्र मोहनिवर्तन। यदि व्यवहारतः प्रमाणस्वरूप सिद्धिः परस्परविरोधीनि लक्षणशास्त्राणि न स्युः । तस्माच्छास्त्रेण लक्षणोपदर्शनात् तद्विषयः संमोहो निवर्तनीयः । येन परलोकनिःश्रेयसादेर्व्यवहाराप्रसिद्धस्य सिद्धिर्भवति ।
. (२) अज्ञातार्थप्रकाशकम् तदेवमविसम्वादनं प्रमाणलक्षणमुक्तमिदानीमन्यदाह ।
'यदि धूमो वह्वरम्यतोपि जायतेह वह्नर्न जायेत विकारणमकारणं यतः।
साध्याधिगतिः साधनं सारूप्ये तयोः। प्रागदृष्टो धूमाषीः।।
" सम्यग्ज्ञानाव् धर्मास्तित्वपरलोकनिश्चयः ततो मोक्षाधिगमात् प्रत्यक्षावृष्टविकल्पाख्यं (1)
'अस्याज्ञातस्य प्राह्मत्वेपि नायमर्थः।