________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
-
स्वरूपस्य स्वतो गति' नं प्रामाण्यस्य । स्वतो हि प्रामाण्यस्याभिव्यक्ति १. वक्तव्या । न तत्पत्तिः । ज्ञानात्मभूतस्य स्वस्मादुत्पत्तिविरोधात् । यदि च स्वतो - बाधितत्वं प्रामाण्यमभिव्यक्त्या व्यवस्थापितं न तस्य बाधकानां सहस्रेणापि बाधोयुक्तः । अथ सम्भवति बाधके बाधकादर्शनं यत्र तत्राबाधितत्वमपोद्यते बाधकदर्शनेन । एवन्तहि बाधकादर्शनान्नाबाधितत्वं किन्तर्हि बाधकाभावात् । तस्य चादर्शनादन्यन्न साधनं । तच्चेदसाधनं नाबाधितत्वं नाम प्रामाण्यं नाप्यस्य स्वतः सिद्धिः । अतः प्रथमं बाधकादर्शनात्प्रसक्तमबाधितत्वं बाधदर्शनादद्यत इति किमत्रायुक्तं । ईदृश एव बाध्य बाधकभावः सर्व्वतः ॥
दशोऽत्र प्रसङ्गार्थः ( 1 ) किं सत्त्वमुत सत्त्वनिश्चयौ । सम्भावनामात्रम्वा । तत्र न तावदनयोः पक्षयोरपवादी युक्तः । सतः केनचिदपि बाधितुमशक्यत्वात् अन्त्येपि न स्वतोऽबाधितत्वनिश्चयः तद्विरुद्धत्वात् सम्भावनायाः । अनिश्चितमेव तथा बाधितत्वं कथमन्यथोत्पद्यत इति चेत् । न तर्हि स्वतःप्रामाण्यनिश्चय इति यत्रापि बाधदर्शनं नास्ति तत्राप्यनाश्वास एव ( 1 ) एवञ्च बाध्यबाधकभावः सदसत्तापक्षयोरसङ्ग 'तो वेदितव्यः ॥ ( ६ )
* प्रामाण्यं व्यवहारेण ;
-यदि स्वरूपमात्रं स्वतो गम्यते न प्रामाण्यं कथन्तर्हि तदवगम्यमित्याह । प्रामाण्यम्व्यवहारेणार्थक्रियाज्ञानेन ( 1 ) यस्य साधनज्ञानस्य तादात्म्यादनुभूतेपि प्रामाण्ये साशङ्का व्यवहर्त्तारोऽनभ्यासवशादनुत्पन्नानुरूपनिश्चयाः तत्रार्थक्रियाज्ञानेन प्रामाण्यनिश्चयः । अन्यत्र तु विभ्र मशङ्कासङ्कोचादुत्पत्तावेव स्वरूपस्य प्रामाण्यस्य स्वतो गतिरित्युक्तं ॥ अथवा चक्षुर्विज्ञानेन रूपक्षण एको दृश्यते न भावी प्राप्यो नापि स्पर्शः तत्कथमन्यदर्शनमन्यप्राप्त्या प्रमाणं । एवं ह्यतिप्रसङ्गः स्यात् ।
१. ज्ञानं । साधनं । * सतो न वाचा सम्वादे वाऽसतः स्वयमेवासत्त्वात् । - सिद्धान्ती
३ अबाधितत्वं प्रसक्तमिति । * प्रमाणमिदमिति निश्चयरूपा न च व्यक्तिः । प्रमाणतदाभासयोरुत्पत्तिकाले संशयादभ्यासम्विना ॥
निश्चितत्वादित्वेन ।
६ स्वतः प्रमाण्यसिद्धिरित्युत्पत्तिर्व्यक्तिर्व्वा स्यात् सिद्धः शब्दः सिद्ध ओदनवत् । नोत्पत्तिः । जाताजातज्ञानयोरकारकत्वात् । असत्वे नाजातस्य जातस्य प्रामाण्यात्सत्त्वात् । * द्रष्टव्यं परिशिष्टं १।६
- स्वसम्वेदनेन ।
● इति बहिरर्थे प्रामाण्याभावोत्य ।
● स्वरूपस्य स्वतो गतिः । प्रामाण्यं व्यवहारेणेत्यस्य व्याख्यान्तरमाह ।