________________
प्रमाणलक्षणम्
गृहीतग्रहणान्नेष्टं सांवृतं, धीप्रमाणला।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥५॥ ... गृहीतग्रहणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाण मेष्टं 2b दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम किञ्चित्करमेव । कस्मात्पुद्धियःप्रमाणतेष्यते नेन्द्रियादेः (1) हेयोपादेयवस्तुविषयायाः प्रवृत्त 'स्तत्प्रधानत्वात् ज्ञानप्रधानत्वात् धिय एव प्रामाण्यं (1) न हीन्द्रियमस्तीत्येव प्रवृत्तिः किन्तर्हि ज्ञानसद्भावात् साधकतमञ्च प्रमाणं तस्याव्यवहितव्यापार त्वात् । (५)
एवं फलार्थिनां प्रवृत्तिव्यवहारकारित्वेन धियः प्रामाण्यं प्रतिपादितं । साम्प्रतमधिगमफलविभागकारित्वमाह।
विषयाकारभेदाच्च धियोधिगमभेदतः। .
धियो विषयस्येवाकारो विषयाकारः नीलादिस्तस्य भेदात् विशेषाधिमम स्यार्थप्रतीतेर्भेवाद्विशेषाद्धिय एव प्रामाण्यं नीलस्वरूपं हि ज्ञानं नीलप्रतीतिरन्यादृशमन्यथेति धीरेव प्रमाणं ।
ननु यथाधिगमसाधन माकारस्तथेन्द्रियमपि तदुत्पत्तरत माह (1) भावादेवास्य तद्भावे
तस्याकारस्य भावेऽस्याधिगमस्य भानादेव साधनमब्यवहितत्वात्न त्विन्द्रियादि तद्भावेपि ज्ञानानुत्पत्तावधिगमाभावात्। कश्चि दाह (1) सर्वज्ञानानामबाधितत्वलक्षणं प्रामाण्यं स्वत एव सिध्यति बाधकारणदोषज्ञानाभ्यां क्वचित्तदपोह्यते यथा शुक्तिकायां रजतज्ञाने' चन्द्रद्वयदर्शने वा। तच्चेदमयुक्तं यतः(1)
स्वरूपस्य स्वतो गतिः ॥६॥
१. . . . . . . घटः। तद्गतसत्ता महासामान्यं । तत्संख्यान्तर्गतः। उत्क्षेपणं कर्म तस्यैवैते व्यपदेशा इति सांवृताः।
ज्ञात्वैव पुंसः प्रवृत्तेः। रूपं .षियः। अधिगमस्य साधनमिन्द्रियादुत्पत्तेः॥ मीमांसकः। • उत्तरकालभाविनानभ्यासजेन चेत्।। 'विषयाकारस्य स्वसम्वेदनात् ज्ञानसत्तासिविः। स्वतः प्रामाण्यस्य ज्ञाते ज्ञाने तदात्मभूतस्य प्रामाण्यस्यापि शातत्वात् ।