SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृतौ (१ परिच्छेदः) स्वत एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरुप्यादितत्त्वनिश्चयवत् । अनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् । अर्थक्रियानिर्भासन्तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकं न तत्र परार्थक्रियाऽपेक्ष्यत इति तदपि स्वतो निश्चितप्रामाण्यं । अत एवार्थक्रियापरंपरानुसरणादनवस्थादोषोपि दुस्थ एव । यत्त्वनभ्यस्तदशायां संदिग्धप्रामाण्यमुत्पत्ती' तस्यार्थक्रियाज्ञानादनुमानाद्वा प्रामाण्यं निश्चीयते । एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाणलक्षणं (i) विज्ञा न नयेपि साधननिर्भासज्ञानानन्तर " मर्थक्रिया " निर्भासज्ञानमेव संवादः । अतो विज्ञप्तिमात्रत्वे प्रमाणेतरविभागव्यवहारोऽसंकीर्णः । परमर्थक्रियाज्ञानं ननु शब्दगन्धरसस्पर्शान् चित्ररूपञ्च पश्यतो ज्ञानस्य नास्तीति तत्प्रमाणन्न स्यादित्याह । • शाब्देष्यभिप्रायनिवेदनात् ॥३॥ ४ शाब्दे शब्दजनिते ज्ञानेऽपि शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थक्रिया (या) निवेदनात् प्रतिपादनात्प्रामाण्यं (1) अर्थक्रिया हि क्वचित्स्वरूपप्रतिपत्तिरेव । क्वचित्ततोऽन्या यथासम्भवं व्यवहारविषयः । तत्प्रापणञ्च प्रामाण्यमिति नाव्यापकं प्रमाणलक्षणम् । (३) ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्वादिष्यते चानुमानत्वादित्याह (i). कृव्यापारविषयो योर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतस्त्वनिबन्धनम् ॥४॥ angour favक्षा तस्य विषयो योऽर्थः समारोपितबही रूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायां (1) तत्र शब्दस्य प्रामाण्यं लिङ्गत्वं । शब्दादुच्चरिताद्विवक्षितार्थप्रतिभासी विकल्पो' नुमीयत इत्यर्थः । तत्कार्यत्वात्तच्छब्दस्य । न पुनरर्थतत्त्वनिबन्धनं तत्प्रतिबन्धाभावात् । (४) ननु घ टोयमित्यादिज्ञानात्प्रवर्तमानस्य सम्बन्धोस्त्येवेति तत् प्रमाणं स्यात् (1) इत्याह । १ सत्यां । २ अव्यापकत्वं निरस्यन्नाह । ४ 'रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः । " यदर्थाकारं ज्ञानं तद् बाह्यार्थाविनाभावि यथा अर्थक्रियानिर्भासं । * विना भ्रान्ति प्रयुक्ते । • संकेतबलात् । " विकल्पशब्द न नदी * येन ज्ञात्वा प्रवृत्तस्यार्थसंवादस्तच्चेत्प्रमाणं घटविकल्पोपि स्यात्प्रमा ॥ वह्निज्ञानान्तरं वाहाविज्ञानं ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy