________________
प्रमाणलक्षणम्
करणात् । तैः परिगतो युक्तः सन् विद्वेष्टयपि। ईमिलैरिति व्यक्त्यपेक्षया बहुवचनं । अनेन यथाक्रममर्थित्वममाध्यस्थ्यञ्चोक्तं (1) तेन श्रोतृदोषकलापेन अयमारिप्सितो वात्तिकाख्यो ग्रन्थः (1) परमुपकरोतीति परोपकार इति नोऽस्माक- . ञ्चिन्तापि नास्ति । कथन्तर्हि शास्त्रकरणे प्रवृत्तिरित्याह चेतश्चिरं दीर्घकालं za सूक्तस्याभ्यासेन विवद्धितव्यसनं विस्तारिताभिष्वङ्गमितिहेतोरत्र वार्तिककरणेऽनुबद्धस्पृहं जाताभिलाषं । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतारस्तत्परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ (२)
ग. प्रमाणसिद्धिः
अयमाचार्यो बृहदाचार्गीय प्रमाण समुच्च य शास्त्रे वात्तिकं चिकीर्षुः स्वतः कृतभगवन्नमस्कार (:) तच्छास्त्रारम्भसमये तदाचार्यकृतभगवन्नमस्कारश्लोकं व्याख्यातुकामः प्रथमं प्रमाणसामान्यलक्षणमाह (1)
१. प्रमाणलक्षणम्
(१) अविसंवादि ज्ञानम् प्रमाणमविसंवादि ज्ञानं;
ज्ञानं प्रमाणं' नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशमविसंवादि । विसंवादनं विसंवादो वञ्चनं तद्योगाद्विसंवादि । न तथाऽसावविसंवादि। अघिसम्वादनमुक्तमित्यर्थः । किं पुनरित्याह (1)
___ अर्थक्रियास्थितिः । अविसंवादनं ;
यथोपर्शितार्थस्य क्रियायाः स्थितिः प्रमाणयोग्यताऽविसंवादनं(0) अतश्च यतो ज्ञानादर्थ परिच्छिद्यापि न प्रवर्तते प्रवृत्तो वा कुतश्चित्प्रतिबन्धादेरर्थक्रियान्नाधिगच्छति तदपि प्रमाणमेव प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् । सैव प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् (1) यत्तावदसकृद्व्यवहाराभ्यासाद्दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेष साधनाध्यक्षं तस्य
१ द्वितीयां सम्वित्तिसिद्धिम्। प्रमाणं भूतो जातो भगवान् मानमिव किन्तदित्याह। २ प्रमाणं सम्यग्ज्ञानमपूर्वगोचरमिति लक्षणं।
.३ मरुमरीच्यादौ। प्रमेयस्य।