________________
प्र० वा. वृत्तौ (१ परिच्छेदः) श्रावकाद्यविषयत्वात् । उदाराश्च सकलज्ञेयसत्वार्थ व्यापनादिति गम्भीरोदाराः। आभ्यां साम्भोगिकनाणिककायावुक्तौ तयोरेव स्वरूपत्वात् । विधूतकल्पनाजाला गम्भीरोदारा मूर्तयो यस्य स विधूतकल्पनाजालगम्भीरोदारमत्तिः (।) एतेन स्वार्थसम्पदुक्ता त्रिकायलक्षणत्वात्तस्याः।
समन्तं निरवशेष भद्रं कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मादसौ समन्तभद्रः (।) अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता' । समन्ततः स्फरन्तीति समन्तस्फरण्यः त्विषः ताव(त) त्विषो देशना यस्य स समेन्तस्फरणत्विट वस्तुतत्त्वावभासनोपायता च त्विड्देशनयोः साधर्म्य (1) अनेन परार्थसम्पदुपायो दर्शितः । देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता असाधारणानां स्वपरार्थसम्पत्तितदुपायानामुपदर्शनात् । सर्वत्र नमःशब्दयोगाच्चतुर्थी। अनेन नमस्कारोभिहितः। यदा तु समन्तभद्रशब्दो' रूढया बोधिसत्त्वविशेषे वर्तते तदापि ,पदव्याख्यानं पूर्ववदेव। अयन्तु विशेषः । विधूतकल्पनाजालत्वं बोधि‘सत्त्वभूम्यावरणप्रहाणतो वेदितव्यं । गाम्भीर्यन्तु खड्गश्रावकाविषयत्वात् । औदार्यन्तु दर्शभूमीश्वरबोधिसत्त्वमाहात्म्यातिशयतः । कायत्रयन्तु बोधिसत्त्वानामप्यस्ति प्रकर्षनिष्ठागमनात्तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव तेषां ॥ (१)
ख. शास्त्रारम्भप्रयोजनम्
श्रोतृदोषबाहुल्याच्छा स्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्ततामेवात्मनः शास्त्रारम्भकारणन्दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतृन् प्रवर्तयितुम (1)ह। *प्रायः प्राकृतसक्तिरप्रतिबलप्रझो जनः केवलं, नान\व सुभाषितैः परिगतो विद्वेष्ट्यपीामलैः। तेनार्य न परोपकार इति नश्चिन्तापि चेतस्ततः, सूक्काभ्यासविबर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥२॥
प्रायो भूयान् बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिरभिष्वङ्गो यस्य स प्राकृतसक्तिरनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः । अप्रतिबला शास्त्रार्थग्रहणं प्रत्यशक्ताप्रज्ञा यस्यासावप्रतिबलप्रज्ञः अनेनाज्ञत्वमुक्तं । केवलं, नानयेव सुभाषितैः। किन्तु सुभाषिताभिधायिनं ईर्ष्या परसंपत्तौ चेतसो व्यारोषः सैव मलश्चित्त मलिनी
- तदथिनां यथा।
अकारान्तः सकारान्तस्तृतीयार्थ इत्यन्ये । जनकायः।
* द्रष्टव्यं परिशिष्टं ॥१-४ "आत्मात्मीयास्त्रधातुकाश्च चैत्ताः सवासनाः।