________________
नमो मञ्जुश्रये ॥
प्रमाणवार्तिकरत्तिः प्रथमः परिच्छेदः॥
प्रमाणसिद्धिः . . . ib विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियं । स्वैकवेद्यात्मसम्पत्ति नमस्यामि महामुनिम् ॥ स्वयमपि कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरैन योयम् । तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् ॥ अहमपि न निजैकलाभलुब्धो न च परकृत्यरसाभिलाषमुक्तः । फलति पुनरियं पराभवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥ क. नमस्कारश्लोकः , शास्त्रा'दावविघ्नेन तत्समाप्त्यर्थं भगवति प्रसादजनने श्रोतु जनानुग्रहार्थञ्च स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह ।।
विधूतकल्पनाजालगम्भीरोदारमूर्तये । नमः समन्तभद्राय समन्तस्फरणत्विषे ॥१॥
विधूतं विध्वस्तं अनुत्पत्तिकधर्मतामापादितं कल्पना ग्राह्यग्राहकाध्यारोपः सैव जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः। एतेन धर्मकाय उक्तः । द्वयशून्यताया धर्मधातुत्वात् (1) तदधिगमस्य धर्मकायत्वात् । गम्भीराश्च खड्ग
१ स्तुत्या पुण्योपचयात्। २ व्याख्यातुश्चेति परार्थदर्शनात् ।
सावरणविममात्। पूजेयं नमः शब्दात्प्रणामतः शिष्टश्च तश्च। तच्च स्वपरार्थतदुभयसम्पत्तिस्ततः अवृत्तिहानिगाम्भीर्योदार्यविशेषैस्विमिः स्वार्थ उक्तः।