________________
३०१
मर्हति तदधीनत्वात् । ततः शक्रमूर्ध्ना धूमोत्पत्तिरिति भ्रान्तिरेषा' । वहनेरेव तद्देशवर्तिनोऽनुपलक्षितादुत्पत्तिः ॥ (३५)
किञ्च (1)
सामान्यचिन्ता
धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान । अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ||३६||
धूमहेतुस्वभावस्तच्छक्ति भेदवान् धूमजननशक्तिविशेषयुक्तो वह्निः प्रतीतः । अधूमहेतोरदहनात् धूमस्य भावे स धूमोऽहेतुकः स्यात् । हेतु प्रमाणनिश्चितमन्तरेणैवोत्पादात् । अहेतुत्वे च नित्यं सत्त्वमसत्त्वम्वा स्यादित्युक्तं ।। ( ३६ ) स्यादेतत्(1) शालूकादि स्वबीजाद् विजातीयाच्च गोमयादेर्दृश्यते (1) तत्कथमवह्नेर्द्धमोत्पादेऽहेतुत्वप्रसङ्ग इत्याह (1)
अन्वयव्यतिरेकाद्यः यस्य दृष्टोनुवर्तकः ।
स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥३७॥
अन्वयव्यतिरेकाद् यः स्वभावो यस्यानुवर्त्तकोऽपेक्षको दृष्टस्तस्य स्वभावस्य तदनुवर्त्यमानं हेतुरतो भिन्नाद् विजातीयान्न संभवः कस्यचिद् । यद्धि शालूकादि स्वबीजप्रभवं यच्च विजातीयप्रभवं तयोः सदृशत्वप्रतीतावपि न तादृशत्वं रसवीर्यविपाभेदात् । यदि तु हेतुभेदेप्यभेदो विश्वात्मकं द्रव्यं स्यादित्याद्युक्तं 60a प्रसज्येत ॥ (३७)
(४) सामान्यचिन्ता स्वभावेप्यविनाभावो भावमात्रानुरोधिनि । तदभावे स्वयम्भावस्याभावः स्यादभेदतः ॥ ३८ ॥
१ वाष्पे वर्षासु ।...
' कार्यहेतुमधि ।
• उत्पद्यमानस्य पूर्व्वापररूपविविक्तस्य प्रत्यक्षेण प्रहात् क्षणिकग्रह एव । न त्वक्षणिकग्रहः पूर्व्वापरकालयोरभासात् तत्सम्बन्धितयाऽभानमिदानीं पूर्व्वस्थ विनाशः । अन्यस्वभावस्य भानमेवोत्पाद इति कथमुच्यते पूर्वोत्तरक्षणानां विनाशोत्पादादृष्टेरक्षणिक इति । नाप्यनेकक्षणरूप इदानीन्तन: तस्ये ह्यतीतादित्वमस्य स्यात् । तत्र चासत्त्वादेवाभानं । भासश्च वर्तमानस्यैव सत्वात् । तेन स्पष्टवस्तुभानमेव क्षणिकत्वं भ्रान्तेस्तु नाध्यवसायः प्रथममनुपलब्ध्या प्राक् सत्त्वं । अन्यत आगमनं तत्सिन्निहि (त) कुड्यावेर्हेतुत्वनिषेधः । एतावद्भिर्भूमो नाग्निजन्यः स्यात् । प्रथमप्रत्यक्षपक्षे यत्संनिधानात् कार्यप्रवृत्तिस्तन्मध्ये यदभावे कार्याभावस्तत्करणं ज्ञेयं गर्वभावेः ।
॥ यदा कवलीबीजकन्दोद्भवा स्फुटमेव तादृशो लोको विवेचयत्याकारमेवात् ।
* खद्योतादिसकाशात् ।