________________
३०० प्र० वा. वृत्तौ (३ परिच्छेदः) फलेपि कारणादनुमीयमाने एकान्तता कुतः। न ह्यवश्यं कारणानि कार्यवन्ति भवन्ति ।। (३२) - यदि दर्शनादर्शने नान्वयव्यतिरेकबुद्धिहेतु मोग्निन्न व्यभिचरतीति न स्यात प्रतिपत्तिरित्याह ।
कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः।
तस्याभावे तु स भवन हेतुमत्तां विलंघयेत् ॥३३॥ कार्य धूमो हुतभुजः कार्यधर्मस्य कारणान्वयव्यतिरेकानुविधायित्वस्य त्रिविध'. दर्शनादर्शननिश्चितस्यानुवृत्तितः स धूमस्तस्याग्नेरभावे तु भवन् हेतुमत्ताम्बि'लंघमेदतिकामयेत् ॥ (३३)
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥३४॥ . अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशविषाणादेरिव । अहेतोरण्यापेक्षणाभावात् अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः । ततो • यद्यहेतुर्भावस्तदा नित्यं स्यात् । असदेव वा स्याद्धत्वभावात् (1) तस्माद् धूमस्य' .
कादाचित्कत्वदर्शनात् हेतुमत्वं । अग्न्यन्वयव्यतिरेकानुविधानदर्शनात् तत्कार्यत्वञ्च। यश्च यस्य कार्य स तं न व्यभिचरति । तदधीनस्वरूपत्वात् ॥ (३४) अतश्च (1)
अभिस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः। - अथानग्निस्वभावोसौ धूमस्तत्र कथं भवेत् ॥३५॥
अग्निस्वभावः शक्रस्य मूर्द्धा वल्मीको यबग्निरेव स तदा न हि वह्निस्वरूपतां विहायान्यद् वह्न रूपं । अथान्यथा प्रतीयमानत्वादनग्निस्वभावोसौ तदा धूमो वह्नर्जन्यस्वभावस्तत्र शक्रमूनि कथं भवेत्। न हि वह्निजन्योन्यस्माद् भवितु
'प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थिति। दृष्टी वा क्रमशोऽपश्यन्नन्यथा त्वनवस्थितिः॥
धूमस्यान्यत्राग्निजन्यत्वे न किञ्चिद् बाधकमस्ति। तदेवेदमिति च प्रतीतेस्तत्सामान्य प्रतीतमुच्यते।
न वाग्निसम्बन्धितयात्यक्षमीनेताकारणान् सकरप्यनुदयात् । नापि स्वभावतो भवति । अनिष्पन्नस्यासत्वादेव। तद्विकारणमकारणं।