________________
अनुपलब्धिचिन्ता
तस्माद्वैधर्म्यदृष्टान्ते नेष्टोंवश्यमिहाश्रयः तदभावे च तन्नेति वचनादपि तद्गतिः ||२५||
२९७
तस्माद् वैधर्म्यदृष्टान्ते नेष्टो' ऽवश्यमिहाभयः वस्तुभूतो धर्मी । तस्यकारणव्यापकस्य साध्यस्याभावे च तत्कार्यव्याप्यं साधनं नेति वचनादपि तस्य साध्याभावे साधनाभावस्य गतिः । वस्तुनि वस्तुनिवृत्तिः सन्दिग्धा वस्तुसम्बन्धाविरोधात् । अवस्तुनि तु वस्तुसत्ता विरुध्यते निवृत्तिस्तु युक्ता । अतः स धर्मिणमन्तरेणापि वाङ्मात्रतोपि गम्यत एवं ( । २५.)
यतः ।
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
• ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ||२६||
तद्भावहेतुभावो वृष्टान्ते ख्याप्येते (1) तस्य साधनस्य भावस्तादात्म्यं साध्यस्य हेतुभावश्च । ख्याप्यते वैधर्म्यदृष्टान्ते साध्यनिवृत्त्या साघननिवृत्तिकथनेन तयोस्तादात्म्यतदुत्पत्तिबन्धमजानतो याह्यन्यनिवृत्त्येतरनिवृत्तिः । सा वस्तुभूतमाश्रयमन्तरेणापि शक्यते निर्देष्टुं । ये तु प्रतिबन्धं विदन्ति तेषां विदुषां हेतुरेव केवलो वाच्यः " । न दृष्टान्तः तत्र दर्शनीयस्य प्रतिबन्धस्य सिद्धत्वात् । यस्माद् दृष्टान्ते प्रतिबन्धः कथ्यते । (२६)
तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः ।
अर्थापत्या द्वितीयेपि स्मृतिः समुपजायते ||२७||
तेनैव कारणेन ज्ञातसम्बन्धे हेतौ साधर्म्यवैधर्म्यदृष्टान्तयोरन्यतरस्योक्तितोऽर्वापस्या सामर्थ्येन द्वितीयेपि स्मृतिः समुपजायते इति न तस्य निर्देशः कर्त्तव्यः' (1) तथा हि यत् कृतकं तदनित्यं यथा घट इति (1) तादात्म्ये निज्ञति नित्यत्वाभावे
१ नियमेन कार्यस्वभावे हेतौ ।
* स्वभावहेतौ साध्यस्य तद्भावः साधनव्यापकत्वं । कार्यहेतो साध्यस्य हेतुभावः कारणत्वं । अविस्मृतेः । ४ पक्षधर्ममात्रनिश्चयायं ।
अन्वयव्यतिरेकनिश्चायकस्य ।
६ यबैककार्यकरणं प्रति सामर्थ्यं तत् तवैव न पूर्वं न पश्चात् तत्कार्याभावात् (1) सामर्थ्यञ्च तदव्यतिरिक्तमेवमुत्तरोत्तरकार्योत्पत्तावपि सामर्थ्यभेवेन पदार्थभेदात् क्षणिक एव क्रमाक्रमनियमः । अन्यथा एकबैककार्यकरणेऽनेककृतौ वान्यवाऽवस्तुत्वं कार्याभावात् पुनः कृतोत्रम एव । अथ प्रकारान्तरेण नैकदा नापि पुनः पुनः करोति तदास्यावस्तुत्वं नित्यस्याकर्तृत्वात् ।
३८