________________
२९६ . . ० वावृत्तौ (३ परिच्छेदः)
उक्तः परेषाञ्च न्यायव्याघात:' परस्परविरोधश्च (1) (२१) यस्माददर्शनमात्रात् न व्यतिरेकसिद्धिः।
तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा। - निवर्तयेत् कारणं वा कार्यमव्यभिचारतः ॥२२॥
तस्मात् सन्मात्रसम्बन्धस्तत्साधनं केवलं तन्मानं तेन सम्बद्धः। हेतु सत्तामात्रेण कारणान्तरापेक्षार हितेन सम्बन्धो यस्येत्यर्थः । स्वभावो व्यापको धर्मो निवर्तमानो भावं व्याप्यमेव वा निवर्तयेत्। यथा वृक्षत्वं शिशपां वृक्ष- . विशेषत्वाच्छिंशपायाः। कारणं वा निवर्तमान कार्य निवर्त्तयति अव्यभिचारतः(!) न हि व्याप्यं कार्य च व्यापकेन कारणेन विना भवतः तत्स्वभावत्वात् तदधीनत्वाच्चेति । (२२) तादात्म्यतदुत्पत्ती अवश्याश्रयणीये॥
अन्यथैकनिवृत्यान्यविनिवृत्तिः कथं भवेत् ।
नाश्ववानिति संदेहे किंन वा पशुसंशयः ॥२३॥ अन्य कस्य साध्यस्य निवृत्याऽन्यस्य साधनस्य विनिवृत्तिः कथम्भवेत् स्वतन्त्रत्वात् । न हि मर्योऽश्वरहित इति गोरहितोपि भवति । (२३) तथा (1) .
समिधानात् तथैकस्य कथमन्यस्य सन्निधिः। १गोमानित्येव मत्येन भाव्यमश्ववतापि किम् ॥२४॥ तथा सन्निधानादेकस्य हेतोः कथमन्यस्य साध्यस्य सन्निधिः। गोमा 'नित्येव मन भाग्यमश्ववतापि किं। गवाश्वस्य परस्परमप्रतिबद्धत्वादेकभावे नान्यभावः । तथा शिशपाऽवृक्षादावपि स्यात् (1) यस्मात् कारणव्यापकनिवृत्त्या कार्यव्यापकनिवृत्तिदर्शनीया वि• पक्षे (१२४)
'भिन्ना द्रव्येष्विति। आत्मन्यस्वीकृतिः। । ज्ञापको लिङ्ग।
साध्यस्य। . स्वभावेनासम्बद्धस्य। 'यस्मात् । • यस्माद् व्याप्तिग्राहकं प्रमाण नान्यत् स्वभावप्रतिबन्धप्राहकात्। तेनैव सामानल्या. साध्यायत्तत्वाहात् । साध्याभावभावो गृहीत एव । केवलं तदविनामावग्राहकं प्रमाणं विस्मृतत्वाद् दृष्टान्ताभ्यां साधर्म्यवैषhयोः प्रदर्श्यते ।