________________
व्याप्तिचिन्ता
९५
58b
इत्यादिनाऽविरोधिनी विरोधरहिता स्यात् । एवमा चारी यः कश्चन प्रतिबन्धमनभ्युपगच्छन् विरोधादुपालब्धः॥ (१९) संप्रति परान् प्रत्याह' (1)
देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः।
तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥२०॥ देशादिभेदात् देशकालसहकारिभेदात् दृश्यन्ते भिन्ना नानाप्रकारा द्रव्येषु शक्तयः २ (1) तत्रैकस्मिन् देशादावेकस्य द्रव्यस्य शक्तिविशेषवतो दृष्टयाऽन्यत्र देशादौ तस्य शक्तिविशेषवतो द्रव्यस्य भावनिश्चयो न युक्तः प्रतिबन्धमन्तरेण । न ह्येकत्र यथौषधयो दृष्टास्तथैवान्यत्रापि ताः शक्यन्ते व्यवस्थापयितुं क्षेत्रादिविशेषाद् विशिष्टतररस वीर्यादि'दर्शनात् । (२०)
(क) वैशेषिकमतनिरासः किञ्च ।
आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः ।
स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥२१॥ आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः। आत्मनोनुपलभ्यमानस्य च योऽनुपलम्भोऽभावस्याप्रसाधको वैशेषि क स्ये ष्ट: (1) तथा मृदश्चेतनायाः स्वभावभूताया योऽनुपलम्भोऽभावाप्रसाधकश्चा ा क स्येष्टः। तथा क्षीरादौ दध्याद्यभावस्य योनुपलम्भोऽप्रसाधक इष्ट: सांख्य स्य। स एवानुपलम्भः किं कस्माद् विपक्षे हेत्वभावस्येष्टो वैशेषिका दिभिः (1) यथा घटादौ प्राणादिमत्वाभावो वैशेषिकस्य। वक्तृत्वाभावो विपक्षे चा ा क स्य। संघात त्वाभावो वा विपक्षे सां ख्य स्यानुपलम्भादिष्टः ।
१ शिष्योऽज्ञोऽदर्शनेनाभाववादी। २ अनेकशक्तिद्रव्येषु तत्र।
हेतोविरोधादनुयुक्ते। ४ वीर्यदोषापनयशक्तिः परिणामो विपाकः संस्कारः क्षीरसेकादि। ५ लोकायतिकस्य। ६ आदिना। • असर्वज्ञाविरागयोः।
८ अपरार्थेषु च शशविषाणादिषु (परार्थाश्चक्षुरादय इत्यभिधाय) संघातत्वस्यादर्शनाद् व्यतिरेकः को हि संहतस्य परार्थत्वे नियमः।