________________
२९४
प्र० वा० वृत्तौ (३ परिच्छेदः) विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् ।
प्रमाणन्तरवाधा चेन्नेदानीन्नास्ति तादृशः ॥१८॥ विशेषस्यासाधारणस्य' श्रावणत्वादेनित्येऽनित्ये चादर्शनादुभयतो व्यावृत्तेः शब्दे धर्मिणि द्वयव्यवच्छेदन हेतुता स्यात्। प्रमाणान्तरबाधा चेत् । अन्योन्यव्यवच्छेदरूपयोरेकप्रतिषेधस्यापरविधिनान्तरीयकत्वात् उभयव्यवच्छेदो नुमानबाधित': । नेदानी' (बाधसंभवे) नास्ति तादृशः। एवं तदृष्टेरभावनिश्चयो नास्तीति वक्तव्यं । यथा श्रावणत्वेनोभयव्यावृत्ततया निश्चितेन प्रसाध्यमानस्योभयव्यवच्छेदस्य प्रमा(णा)न्तरेण बाधा। (१८)
(ख) प्राचार्यांयमतनिरासः . तथान्यत्रापि संभाव्यं प्रमाणान्तरबाधनम्।
दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी ॥१९॥ तथान्यत्रापि विपक्षाद्धेतो य॑तिरिकेपि संभाव्यं प्रमाणान्तरबाधनं । अदर्शनमात्रस्य निमित्तस्य समानत्वात्। तथा दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी। दृष्टेषु पृथि व्यादिष्वपाकजस्यानुष्णाशीतस्पर्शस्यायुक्ति योगाभावः (1) . अदृष्टेरदर्शनात् वैशे षि क स्येष्टाऽनुपलम्भाद् व्याप्त्या निवृत्त्या निश्चयादा चार्येण प्रतिक्षिप्ता च। "यद्यदर्शनमात्रेण दृष्टेभ्यः१० प्रतिषेधः क्रियते न च सोपि युक्त"
१ अदर्शनमात्राद् व्यावृत्तिरिष्टाऽस्ति च नित्यानित्ययोरदर्शन। २ प्रतिषेधहेतुत्वं।
३ श्रावणत्वस्य कृतकत्ववद् वस्तुधर्मत्वान्नित्यादस्त्येव व्यतिरेको बाधकात् । परे तु नित्यमपि वस्त्विच्छन्ति तदपेक्षयोच्यते नित्यानित्यव्यावृत्तिः।
वस्तु भवत्तत्वमन्यत्वम्वा नातिकामति (1)
यद् विरुद्धं न तस्यैकत्र युगपत्सम्भवो यथा शीतोष्णयोविरुद्धश्च नित्यानित्ययो युगपदेकत्र मिणि व्यवच्छेदो यथोक्तविधानेनेति व्यापकविरुद्धं ।
६ लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः। नैवं मानद्वये। ___ अध्यक्षं किञ्चिद् दृष्ट्वा यत् किञ्चिद् पृथिव्यादि तत् सर्वमनुष्णाशीतरहितं तन्न तूलोपलपर्णवादिवद् भेदसम्भवात् । अदर्शनमात्रे प्रत्यक्षबाधा। 'असङगतिः।
यद्यदृष्टया निवृत्तिस्तदाऽदृष्टरदर्शनादनुष्णाशीतस्य स्पर्शस्य दृष्टो युक्तिः दृष्टेषु पृथिव्यादिष्वसङगतिर्या वैशेषिकोक्ता। यस्याचार्येणायुक्तत्वमुक्तं स्यादविरोधिनी, युक्तैव। १० दृष्टमेव स्वीकृत्यादृष्टपि।