________________
व्याप्तिचिन्ता
२९३
न च नास्तीति वचनादेव तत्साधनं विपक्षे नास्त्येवेति युक्तं । तदपि ह्यनुपलम्भमेव ख्यापयति' (1) स च सर्वस्माद्विपक्षाद्धत्वभावप्रती तावशक्तः। 58a (कथन्तीत्याह) यथा येन प्रकारेण साध्यसाधनयोः प्रतिबन्धे सति साध्याभावेन साधनं विपक्षे नास्ति स न्यायो यदि ख्याप्यते व्यभिचारिविपक्षेण वैधोक्त्या तदा नास्तीति गम्यते नान्यथा॥ (१६) किञ्च (1)
यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् ।
व्यतिरेक्यपि हेतुः स्यान्न वाच्याऽसिद्धियोजना ॥१७॥ - यद्यदृष्टौ विपक्षातोनिवृत्तिः स्यात् शेषवत् सन्दिग्धविपक्षव्यतिरेक व्यभिचारि किमिष्टमा चार्येण। एवञ्च सरसान्येतानि फलानि रूपाविशेषादिति । सर्बस्य तादृग्रूपस्य पक्षीकृतत्वात् न व्यभिचारदर्शनं विपक्षे चादर्शनमस्तीति प्राप्तमदर्शनमात्राद् व्यतिरेकवादिनो हेतुत्वमस्य ॥
व्यतिरेक्यपि हेतुः स्यात् । नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्वप्रसङ्गादि ति। बौद्धं प्रति सात्मकस्य कस्यचिदसिद्धेरन्वयाभावात् । निरात्मकेभ्यश्च पटादिभ्यो निवृत्तेः प्राणादिय॑तिरेकी स हेतुः स्यात्। अदर्शनाद् व्यतिरेकसिद्धरनिष्ट श्चाचार्येण ॥
किञ्च (1) वादिप्रतिवादिनोरसिद्धस्यान्यतरासिद्धस्य सन्दिग्धस्याश्रया सिद्धस्य सन्दिग्धाश्रयासिद्धस्य असिद्धस्य च निरासं पक्षधर्मत्वनिश्चयेन प्रतिपाद्यान्वयव्यतिरेकनिश्चयवचनेन सपक्षविपक्षयोर्हेतोरन्वयस्य व्यतिरेकस्य च विपरीताया असिद्धेश्चतुविधाया योजना आचार्येण सपक्षे सन्नसन्नित्येवमादिष्वपि यथायोगमुदाहार्यमित्यादिना निर्दिष्टा (1) सापि न वाच्या। अदर्शनस्य व्यतिरेकनिश्चयहेतुत्वे सन्दिग्धव्यतिरेकस्य हेतुत्वात् ॥ (१७)
अपि च (1)
१ विशिष्टकारणानुमान। ___२ उपभुक्तान्यफलानि पक्वानि मधुरादिरसानि वा। रक्तादिरूपाविशेषादुपभुक्तफलवत्। एकशाखाप्रभवत्वाद्वा। अपानोन्मेषनिमेषादि।
४ घटादावपि नैरात्म्यासिद्धबौद्धाभ्युपगमाच्चेत् आत्मा न स्यात् ।
५ आचार्येण युक्तं पक्षधर्मों वाविप्रतिवादिनिश्चितो गह्यते । तेनैषां निरासः।
H T RINASIKHENACHHINCHPANDHANAN AMITRA अन्यतरासिद्धादीनां सपक्षादिष्वसम्भवात यथायोग ।