________________
२९२
प्र० वा. वृत्तौ (३ परिच्छेदः) - तेन प्रतिबन्धस्यावश्याभ्युपगन्तव्यत्वेन हेतोस्त्रिष्वपि पक्षधर्मा'न्वयव्यतिरेकेषु निश्चय आचार्य दि ग्ना गे न वणितः । कथमुक्त इत्याह । असिद्धस्य विपरीतार्थस्य विरुद्धस्य व्यभिचारिणोऽनैकान्तिकस्य विपक्षण' । तत्रासिद्धत्वविपक्षण पक्षधर्मत्वस्य निश्चय उक्तः। विरुद्धविपक्षणान्वयस्य । अनैकान्तिकविपक्षेण व्यतिरेकस्य ॥ (१४)
(३) व्याप्तिचिन्ता
(क) प्रतिबन्धो दिग्नागेष्टः न ह्य सति प्रतिबन्धे विपक्षाद् व्यतिरेकः शक्यनिश्चयः। उक्तश्च निश्चयस्ततः प्रतिबन्धोप्याचार्येणेष्ट इति प्रतीयते। अन्यथा (1)
व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत् ।
यद्यदृष्टिफलं तच्च तदनुक्तेपि गम्यते ॥१५॥ प्रतिबन्धानिष्टौ व्यभिचारिणोऽनैकान्तिकस्य विपक्षेण वैधर्म्यस्य व्यतिरेकस्य वचनं यदाचार्यस्य (1) एष तावन्न्यायः यदुभयं वक्तव्यं विरुद्धानकान्तिकप्रतिपक्षणेत्युभयमन्वयव्यतिरेको। तच्च यद्यदृष्टिफलमदर्शनमात्रफलं तददर्श - नमात्रमनुक्तेपि' व्यभिचारिविपक्षेण व्यतिरेको गम्यते (1) हेतुत्ररूप्यनिर्देशादेव विपक्षेऽदर्शनमात्रस्य गतत्वात् । तस्माद् वैधर्म्यवचनेन विपक्षे हेत्वभावः कथ्यते। स चादर्शनमात्रेण न सिध्यति ॥ (१५) नास्तीति वचनादेव सिध्यतीति चेत्।
न च नास्तीति वचनात् तन्नास्त्येव यथा यदि । नास्ति स ख्याप्यते चायमुक्तौ नेति गतिस्तदा ॥१६।।
S
ANSARAMITRATIRTHAANTICMWHAgr
१ प्रसिद्धस्तु द्वयोरपि साधनमित्यादिना वादिविवादिनोः। ' तृतीया आद्यदिग्धातु सिविपक्षत (?) इत्यत्र । । तद्वयर्थमित्याकूतं ४ न्यायमुख आचार्येणोक्तं साधम्यं वैधम्यं चोभयं । ५ वैधर्म्यस्य। । अनैकान्तिकस्यादर्शनमात्रेणानिरासादनकान्तिकविपक्षेण यद्वचनं तेन ।