________________
२९१
अनुपलब्धिचिन्ता स्थालीतण्डुलपाकवत्। स्थाल्यन्तर्गतानां तण्डुलानां' पाकस्येवानुमानं । तदितरेषां पाकादर्शनात् शेषवत् ॥ (१२)
(क) शेषवदनुमाननिरासः किं पुनः शेषवदित्युच्यते । इत्याह।
यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते ।
तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम् ॥१३॥ यस्य लिङ्गस्यादर्शनमात्रेण विपक्षे व्यतिरेकः प्रदर्श्यते । न तु कारणव्यापकनिवृत्त्या तस्य संशयहेतुत्वात् साध्यानिश्चायकत्वात् शेषवत् तदुदाहृतं । सन्दिग्धविपक्षव्यावृत्तिकत्वं शेषवदुच्यते प्रतिबन्धाभावादित्यर्थः। (१३)
(ख) त्रिषु हेतुरूपेषु निश्चयः हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः। १ असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥१४॥
सूत्रमुक्तं (0) अस्यायमर्थः (1) यो गुणः स द्रव्याश्रयी तद्यथा रूपादिः। अपाकजानुष्णाशीतस्पर्शश्य (?स्य) गुणः तस्मात् तस्याश्रयभूतेन द्रव्येण भवितव्यं 110) न चायं दृष्टानां पृथिव्यादीनां गुणः (1) तेषां पाकजानुष्णाशीतस्पर्शादिगुणत्वात् (1) ततो यस्यायं गुणः स वायुभविष्यतीत्युक्ते वैशेषिकेण (1) तत्राचार्य दि ग्ना.गेनोक्तं (1) यद्यदर्शनमात्रेण दृष्टेभ्यः (स्पर्शस्य) प्रतिषेधः क्रियते न च सोपि युक्त इति दृश्यादृश्यसमुदायस्य सामान्येन निषेधात् (1) यदेतदुक्तं तद्विरुध्यत इति वा ति क का रो दर्शयन्नाह दृष्टेत्यादि । यद्यदृष्टया निवृतिः स्यात् तदाऽदृष्टेन दर्शनात् कारणादपाकजस्यानुष्णाशीत स्पर्शस्य दृष्टाऽयुक्तिः (1) दृष्टेषु । पृथिव्यादिष्वसङगतियाँ वर्णिता वै शे षि कैः यस्या आचार्यणायुक्तत्वमुक्तं सा स्यादविरोधिनी युक्तैव स्यादित्यर्थः। वायुप्रकरणे पृथिव्यादिभ्यः * यदि स्पर्शादेर्गुणत्वं सिद्धं स्यात् ततो वायुद्रव्यानुमानं स्यात् । सैव त्वसिद्धा स्वातन्त्र्येण प्रतीतेः स्पर्शाविशेषोस्माकं वायुः (1) आचार्येण तु स्पर्शव्यतिरिक्तं वायुमभ्युपगम्यायुक्तत्वमुक्तं परे।
१ बाहुल्येन पक्षदर्शनेपि पक्षसमहेतवः पक्षा इति युक्तं वैधयें ।
२ पूर्ववच्छेषवत्सामान्यतो दृष्टमिति (न्यायसू०१।११५) शेषवल्लक्षणं नैयायिकस्य विरुद्ध कारणात् कार्यानुमानं पूर्ववत् । शेषः कार्य यस्यास्ति तच्छेषवत् (1) कार्यात् कारणानुमानं। अतः पृच्छति किमिति (1)
क्वचित्।