________________
प्र० वा. वृतो (३ परिच्छेदः) नायोनिशोमनस्कार रहितानां कारणत्वं सहितानामेव हेतुत्वात्। ततः केवलाद् देहाद् रागानुमानमनैकान्तिक। (१०) तथा (1)
... ‘विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानप्रमाणाभं वचनाद् रागितादिवत् ॥११॥ विपक्षोऽदृष्टिमात्रेण कार्यसामान्यस्य' क्वचिद् धर्मिणि दर्शनात् । हेतुज्ञानं यत् प्रमाणाभं सन्दिग्धविपक्षव्यावृत्तिकं तत् वचनाद् रागितादिवत् ।। यथा. वचनस्य वीतरागेऽदर्शनात् क्वचिद् दर्शनाद् रागानुमानमनैकान्तिकं (1) न हि रागवचनयोः कार्यकारणभावः सिद्धः। वक्तुकामता हेतुत्वात् तस्य । सा च वीतरागस्य करुणया' संभवति। यद्यपि वक्तरि रागो दृश्यते तथापि क्वचिद् वक्तुकामतासत्वेपि रागाभावे क्चनाभावासिद्धेर्न तत्कार्यतासिद्धिरुपलखण्डाद् वक्तुकामता निवृत्तेरेव वचनाभावो न तु रागाभावात् (1) ततो वीतरामात् सन्दिग्धोस्य व्यतिरेकः ।। (११) .
न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता ।
संभाव्य व्यभिचारित्वात् स्थालोतंडुलपाकवत् ॥१२॥ नच विपले हेतोरदर्शनमात्रेण साध्याभावप्रयुक्तसाधनाभावनिश्चयरहितेन साध्याव्यभिचारिता साध्यते सम्भाव्यव्यभिचा(f) रत्वात्। यदि विपक्षाद्धेतुनिवृत्तिनिश्चय एवं व्यभिचारशङ्कानिरासः। स तु नास्तीति तस्याप्यभावः ।
'योनिशो मनो नैरात्म्यज्ञानं (1) तद्विरुद्धमात्माविज्ञानं । 'रागे साध्ये तत्र हितोपलंबिपक्षस्तत्र बेहाद्यदृष्टेरस्ति (1)
सातुकामताजस्य राग्यरागिगतवचनस्य (1) वक्तुकामतैव रागश्चेविष्टन्तत् । अभिष्वङगो नो रागः। ५. नैवं करुणाधर्मालम्बनत्वात्। न वाग्विशेषात् सरागोपि वीतरागवदित्यनिश्चयात्। देवमोहादि।
'अविशिष्टं विवक्षामात्र। मभिष्वङ्गो धर्मालम्बनत्वात् ।
विपने दृष्टया व्यभिचारी न च विरागे वचनं दृष्टमित्याह । अनेकान्तिकल्यावर्शनमात्रेणानिरासादनकान्तिकविपक्षण यद्वचनं तेन वैशेषिकेण वायोः सत्यसाधनार्य स्पर्शश्च न च दृष्टानामिति (वैशे० सू १० । अ० २। आ० १)