________________
अनुपलब्धिचिन्ता
२८९ हेतुधर्मानुमानेन रसकारणस्य धर्मो रसादिसहचररूपजनकत्वं (1)तदनुमानेन रसाद् रूपादिगतिः। न हि कार्य रसः कारणमन्तरेण । कारणञ्चास्य' रससहकारि रूपजनकं पुजात् पुञ्जोत्पत्तेः। अतः तस्मिन्ननुमितेऽनुमितमेव रूपं धूमेन्धनविकारवत्। धूमाद्धेतुधर्मानुमानेनेन्धनविकारस्याङ्गारादे मसहचरस्येवानुमान। (८) एतदेव स्फुटयन्नाह (1)
शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् ।
इत्यतीतैककालानां जायते कार्यलिङ्गतः ॥९॥ रसहेतोः शक्तिप्रवृत्त्या शक्त्याभिमुख्येन विना न रस उत्पद्यते (1) सैव रसहेतोः शक्तिप्रवृत्तिरन्यस्य रूपादेः कारणं इतरसमानकालरूपादिजनकत्वेन रसहेतोर तीतस्य हेतोरेककालानां रससहचराणां च रूपादीनां गतिः तस्य रसरूपहेतोः कार्याद् रसाल्लिङ्गाज्जाता॥
___ एवं पिपीलिकोत्सरणादि दर्शनात् वर्ष (1) पिपीलिकादिक्षोभहेतोभूतपरि• णामविशेषस्यानुमानात् वर्षानुमानं कार्यलिङ्गजं वेदितव्यं । नदीपूरादेवर्षकार्यत्वं व्यक्तमेव ॥ (९)
हेतुना योऽसमग्रेण कार्योत्पादोऽनुमीयते । - तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥१०॥
यः पुनर्हेतुनाऽसमग्रेण कार्योत्पादः कार्योत्पादनयोग्यत्वमनुमीयते' तच्छेषवदनैकान्तिकमसामर्थ्यात्। समर्थं' हि कार्योत्पादनयोग्यं न च व्यग्राणां समर्थता। देहात् बुद्धीन्द्रियादेश्च हेतो रागानुमानवत् । देहादीनां कथञ्चिद् रागहेतुत्वेपि'
१ इति कार्यात् कारणविशेषानुमान।
रसोपादानसमानकालभाविनोतीताः। लिङ्गभूतरससहभाविन एककालाः। इति अनेन द्वारेण। नानागतगतिः (1)
योग्यतानुमान। ४मत्स्योत्पतनात्। गृहीताण्डस्यान्यत्र गतिः बलाकातस्तोयं (1) "मीमांसाकादिभिः।
कार्य सर्वथाऽसम्बद्धं योग्यतापि नास्ति क्षणपरिणामेनापि रागादिमानयं देह इन्द्रियबुद्धिमत्वात्।
अदेहादे रागादृष्टः 'अहं ममेत्यात्मात्मीयाभिनिवेशपूर्वकत्वात् (1)