________________
२८८
प्र० वा० वृत्तौ (३ परिच्छेदः)
१
हेतुना यः समग्रेण कार्योत्पादोनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोनुवरिगतः ||६||
हेतुना समग्रेण यः कार्योत्पादोनुमीयते ( 1 ) स कस्मिन् हेतावन्तर्भवतीत्याह (1) स स्वभावहेतुरनुर्वाण्णतः । न हि समग्रा'द्धेतोः कार्यसम्भवानुमीयते (1) किन्तर्हि (1) कार्यार्जनयोग्यत्वं ( 1 ) तच्चार्थान्तरानपेक्षत्वाद्धेतुसाकल्यमात्रानुबन्ध्येवेति तस्मिन् साध्ये हेतुसाकल्यं स्वभावहेतुरेव । (६) कस्मात् पुनः कार्यमेव नानुमीयत इत्याह ।
३. सामग्रोफलशक्तीनां परिणामानुबन्धिनि । नैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥७॥
कार्येऽनुमेयेऽनैकान्तिकता हेतुसाकल्यस्य । कीदृशे (i) सामग्र्याः फलञ्च ताः [ उत्तरक्षणं ] ( 1 ) शक्तयश्च तासां परिणामः कार्योत्पादानुगुणस्तार' तम्ययोगी क्षणप्रबन्धः । तदनुबन्धिनि तदपेक्षिणि । अत एव प्रतिबन्धस्य सम्भवादित्युक्तं । (७)
न खलु कार्यं हेतवो मिलिता इत्येव भवति ( 1 ) किं त्वेषां विशेषमपेक्षतेsत्रान्तरे च शक्तिव्याघातो मन्त्रतन्त्रादिना वैकल्यञ्च सम्भवतीति कार्यस्यावश्यभावान्न तदनुमानं ।
एकसामग्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ||८||
याच रसतो मधुरादिकात् ( 1 ) रूपादेरादिशब्दाद् गन्धस्य स्पर्शस्य च एकसामग्र्य' धीनस्य रसादिना सहैकसामग्रयायत्तस्य गतिः सा कथमित्याह ( । )
१ अप्रतिबद्धसामर्थ्याच्चेत् कार्यमुत्पन्नं दृश्येतैव । कारणकारणात्तु व्यभिचार इत्याह ।
२
यथा तानवितानवतस्त (न्तू) न् व्यापारवत्पुंसाधिष्ठितान् दृष्ट्वा पटानुमानं । कारणाख्यं नानुपलब्धि ( त्रिधैवेति इष्यते ) विधिसाधनात् । कारणस्वभावत्वान्न कार्यं । अन्येनान्य (धनु) मानान्न स्वभावोपि हेतुरित्याह । नात्र कार्योत्पादानुमानं किन्तु समग्राणां कार्योत्पादनयोग्यता । स्वभावविशेषः कार्यमुत्पद्यतेऽस्मादिति श्लोकेप्यर्थः प्रयोगो या समग्रा सोत्तरपरिणामात् कार्योत्पादनयोग्या यथोत्पादितकार्यसामग्री (1)
पुनस्त्रिधैवेति त्रस्यति (1) अकार्यकारणभूते नानुमेयादन्येनान्धकारे मातुलुङ्गादिरसमास्वाद्य चम्पकगन्धमाघ्राय वह्निस्पर्शमनुभूय तेषां रूपसामान्यमनुमीयते । सा कथमनुमेयादन्येनानुमानान स्वभावहेतुः ।