________________
२८६
प्र० वा० वृत्तौ (३ परिच्छेदः) ___ सत्यं (1) नाभावः साध्यः सिद्धत्वादस्य। किन्तर्हि (1) विषयोपदर्शनेन विषयी व्यवहारः साध्यते । यथा गोव्यवहारविषयोऽयं सास्नादिसमुदाया त्मकत्वात्। (२)
(२) अनुपलब्धिश्चतुर्विधा सा च प्रयोगभेदादनुपलब्धिश्चतुविधा कथमित्याह।
विरुद्धकार्ययोः सिद्धिरथ हेतुस्वभायोः।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥३॥ विरुद्धञ्च कार्यञ्च विरुद्धकार्ये कार्यञ्च प्रत्यासत्तेविरुद्धस्यैव बोद्धव्यं । तयोर्दृश्यात्मनोहेतुभावयोः कारणस्वभावयोश्च दृश्यात्मनोर्यथाक्रमं सिद्धिरुपलब्धिरसिद्धिरनुपलब्धिश्च। _ विरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोग्नेः। व्याप्यव्यापकयोर्वस्तुतस्तादात्म्यात्। व्यापकविरुद्धोपलब्धिरप्यनेनैवोक्ता भवति। यथा नात्र तुषारस्पर्शोऽग्नेः । विरुद्धकार्योपलब्धियथा नात्र शीतस्पर्शो धूमात्। कारणा'नुपलब्धिर्यथा नात्र धूमोऽनग्नेः । स्वभावानुपलब्धिर्यथा नात्र धूमोनुपलब्धः । अनेन व्यापकानुपलब्धिरप्युक्ता' यथा नात्र शिशपा वृक्षाभावात्।
चतुविधाप्यनुपलब्धिरभावार्था प्रतिषेधफला (1) तत्र स्वभावानुपलब्धिः स्वयमेव प्रतिषेध्याभावरूपतया सिद्धाऽभावव्यवहारसाधनी। इतरास्तु निषेध्याभावाव्यभिचारिण्यः तदभावमभावव्यवहारञ्च साधयन्ति । तस्यासिद्धत्वात् । (३)
यदि विरुद्धकार्योपलब्ध्याऽभावसिद्धिस्तदा विरुद्धकारणोपलब्ध्यापि किं न साध्यत इत्याह।
तद्विरुद्धनिमित्तस्य योपलब्धिः प्रयुज्यते । निमित्तयोविरुद्धत्वाभावो हि व्यभिचारवान् ॥४॥
१ सिद्धमतदस्यैव गोत्वात्। 'कारणाभावस्यैव ख्यापनात्। ३ अस्य व्यापकं शीतं। एकप्रकारैवेयं ।
प्रभेदोस्याः कारणविरुद्धोपलब्धिः कारणविरुद्धकार्योपलब्धिश्च प्रतिषेध्यकारणानुपलम्भसाधनात् । वह्निविरुद्धं शीतं निवर्तयन् तत्कार्य निवर्तयति (1)
स्वभावाभावस्यैव प्रतिपादनात्