________________
अनुपलब्धिचिन्ता
२८५
प्रमाणनिवृत्तिरूपाऽनुपलब्धिरसति सद्व्यवहारातिक्रान्तत्वादसदविशिष्ट देशकालस्वभावविप्रकृष्टे सु मे र्व्वा दो (1) सज्ज्ञान' शब्दव्यवहाराणां प्रवृत्तिप्रतिषेधोप्रवृत्तिस्तत्फला (1) एतच्चाप्रवृत्तिफलत्वं दृश्यादृश्यानुपलब्ध्योः साधारणं ज्ञानपूर्वकत्वात् * (1) सत् ज्ञानशब्दव्यवहारस्य ज्ञानाभावे तदभावस्य न्यायप्राप्तत्वात् । दृश्यानुपलब्धेः फलान्तरमाह । काचित् प्रमाणनिवृत्तिरसत्ज्ञानमभावज्ञानं तत्फला । कथमित्याह ।
हेतुभेदव्यपेक्षया ||२||
हेतुरनुपलम्भस्तस्य भेदो विशेषणमुपलब्धिलक्षणप्राप्तविषयत्वं । तस्य व्यपेक्षया कांक्षया उपलब्धिलक्षणप्राप्तानुपलब्धिरित्यर्थः ।
ननु यद्यनुपलब्ध्याऽभावः साध्यते तदोपलब्ध्यभावोपि तत एवेत्यनवस्था - नादभावाप्रतिपत्तिः स्यात् । दृष्टान्तश्च न स्यादन्यस्याभावसाधनस्याभावादनुपलब्धेश्चान" वस्थाप्राप्तत्वात् । अथ पदार्थान्तरोपलब्धिरेवानुपलब्धिस्तयाऽध्यक्षसिद्धघाऽभावः साध्यते तस्मान्न दोषः । यद्येवमर्थान्तरादपि किन्नाभावः साध्यते (1) तदपि ह्यनुपलब्धिरूपं प्रत्यक्षसिद्धञ्च । को वान्योपलम्भाभावेन सम्बन्धः ।
उच्यते । एकज्ञानसंसग्गि वस्त्वन्तरं तदुपलब्धिश्चानुपलब्धिव्ववक्षितोप- .. लब्धेरन्यत्वादभक्षास्पर्शनीयवत् । स एवाभावः तदतिरिक्तस्य विग्रहवतोऽभावस्थाभावात् । तस्मात्तादात्म्यमभावानुपलम्भयोः सम्बन्धः ।
एवं तर्ह्यनुपलब्धिसिद्धिरेवाभावसिद्धिः किं साध्यते ॥
し
उपलब्धिः कर्मधर्मश्चेद्वस्तुयोग्यता । कर्तृधर्मश्चेज्ज्ञानं । उपलि (? लब्धि) : सत्यमेव । असताञ्चानुपलब्धिरसत्वं । मुख्यं सत्यमनेन दृश्यानुपलब्ध्याऽशेषः । अदृश्यानुपलब्धिः । दृश्यानुपलब्धौ वस्तुवशान्निवृत्तं सत्वं स्वनिमित्तं ज्ञानादि निवर्तयति । अदृश्येप्यभीष्टकार्याकरणादसत्कल्पे प्रतिपत्त्यष्यवसायान्निवृत्तं सत्व' स्वनिबंधनं निवर्तयति (1)
★ उपलब्धिः कारणं सद्व्यवहारस्य । तदभावे कार्याभाव उक्तः । 1 अभावप्रमाणस्वीकारे यद् दूषणं तदिहातिविश्य परिह (र) ति ।
• यस्य विषयस्याभावः साध्यते तदुपलब्धेरप्यमाबोन्ययानुपलब्ध्या तस्या अप्यन्ययेति ।
56b
येनैव पक्षधर्मेण साध्यषमिष्यभावः साध्यते । तेनैव दृष्टान्तषमिष्यवि । तत्राप्यपर (1) दृष्टान्त इति ।