________________
२८४ - प्र० वा. वृत्तौ (३ परिच्छेदः)
कार्य स्वभावैर्यावद्भिविशिष्टैधूम' वत्वादिभिरविनाभावि विना न भवतीति कारणे कारणविषयेऽवधारितं तैरेव विशिष्टैः स्वभावैर्हेतुर्न साधारणैः पार्थिवत्वादिभिः । अग्निमन्तरेणापि तेषां भावात्। तथा कारणेऽधिकरणे याव द्भिः स्वभावरग्नित्वादिभिः सामान्यधर्मरविनाभावि कार्य धूमादिनिश्चितं तेषां सामन्यधर्माणां हेतूनं विशेषधर्माणां चान्दनत्वादीनां । तान्यन्तरेणापि धूमादेर्दर्शनात् । यदि धूमत्वविशेषितं पार्थिवत्वं हेतुः क्रियते तदेष्टमेव व्यभिचाराभावात् (1) यदि च कारण गतचान्दनत्वादिविशेषजनितो धूमस्य विशेषः शक्यो निश्वेतुं तदा चान्दनत्वादयो गम्या इष्यन्ते । न हि कार्यकारणभावः सत्तामात्रेण गभ्यगमकभावनिमित्तं किन्तु निश्चयापेक्षः। स च यावन्निश्चीयते तथागम्यगमकभावः।
भावोपि स्वभावौपि हेतुः स्वभावे साध्ये कीदृशे हेतोर्भावः केवलो भावमात्रं तदनुरोधुमनुवत्तितुं शीलमस्येति भावमात्रानुरोधि तस्मिन् । यस्य सत्तामात्रेण यो धर्मोऽवश्यं भवति न हेत्वन्तरमपेक्षते । तस्मिन् साध्ये स्वभावाख्यो' हेतुर्नान्यत्र यथा वस्त्रत्वं रामे (1) एवञ्च विधिसाधनत्वं कार्यस्वभावयोर्दशित।
२. अनुपलब्धिचिन्ता
(१) दृश्यानुपलब्धिफलम् इदानीं तृतीयहेतोः प्रतिषेधफलत्वमाह।
अप्रवृत्तिः प्रमाणानां;
. ' इत्यंभूतलक्षणा तृतीया। स्वगतः सामान्यः धर्मः कार्य्यस्यास्तु विशेषधर्मा गमकाः स्वभावे कृतकत्वेन प्रमेयत्वं गमकं।
कारणस्पैः। एवमङ्गन जन्यजन (क)त्वं स्यादिष्यते च सर्वया । आह ज्ञापकहेतुरयं । 'प्रत्यापृष्ठभाविना निश्चयेनाधूमव्यावृत्तिल्पावधारणेन. धूमाविस्वलक्षणं भासमानं तादिविशेषानवधारणेन चानकस्थलक्षणरूपं सामान्यलक्षणं लिङ्ग प्रत्यक्षाविषयो व्यवस्थाप्येत लिङ्गि च।
व्यक्तिमेवेन मानबहुत्वात् आगमापेक्षया वा आगमस्यापि . निवृत्ति - भावं सापयतीति वक्यते ।