SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ यथाक्रममन्वयव्यतिरेकावुक्तौ । व्याप्यसद्भावे व्यापकस्य सत्वनियमस्यान्वयरूपत्वात्। व्यापकाभावे व्याप्याभावस्य च व्यतिरेकरूपत्वात् (1) ___ (२) हेतुविधा एतेन विरूपत्वं हेतोर्लक्षणमुक्तं । त्रिधैव सः। विधव त्रिप्रकार एव कार्यस्वभावानुपलम्भभेदेन स' हेतुः । यथाग्निस्त्र धमात्। वृक्षव्यवहारयोग्योयं शिंशपात्वात् ।' नेह प्रदेशे घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति संख्यानियम उक्तः । .. कस्मात् पुनस्त्रिविध एव हेतुरित्याह। अविनाभावनियमात; अविनाभावस्य साध्याव्यभिचारित्वस्य त्रिविध एव हेतो नियमात् नियतत्वात्। संयोग्यादिषु चाभावात् सत्येवाविनाभावे हेतुत्वं स च व्याप्त्या कथितः। - अनेन संख्यानियमकारणमुक्तं। __ (३) हेत्वाभासाः .. हेतव उक्ताः। के पुनर्हेत्वाभासा इत्याह (1) _ हेत्वाभासास्ततोऽपरे ॥१॥ हेतुवदा भासन्त इति हेत्वाभासा हेतुप्रतिरूपकाः (1) ततस्त्रिविधादेतोरंपरेऽन्ये संयोग्यादयः । अविनाभावे सति हेतुत्वं स च तादात्म्यात् तदुत्पत्तेश्च । । ये तु तद्विकलास्तेऽविनाभावविरहात् हेत्वाभासा इत्यर्थः (११) यदि तदुत्पत्त्या गम्यगमकभावस्तदा धूमत्वविशेषवत् सामान्यधर्माः पार्थिवत्वादयोपि गमकाः स्युः । तथाऽग्नेः सामान्यधर्मवच्चान्दनत्वादयोपि विशेषधर्मा गम्याः स्युः। सर्वथा कार्यकारणभावादित्याह। कार्य स्वभावैर्यावद्भिरविनाभावि कार्यवत् । • हेतुः स्वभावे भावोऽयि भावमात्रानुरोधिनिा! 'पक्षधर्मत्वेन यथोक्तव्याप्त्या च युक्तः। २ दिङनागोक्तं परं प्रति सर्वथा गम्यगमकत्वं कार्यहेतौ शकते। _____56a
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy