________________
आत्मानुभूतं प्रत्यक्षम्
२८१
ज्ञानान्तरं विषयान्तरग्राहकमिति स्याद्विषयान्तरसञ्चार इत्यभिमते यद्यन्त्यं ज्ञानं ज्ञानानुभवितृ नानुभूयते तदा सर्व्वस्यार्थस्य तत् ज्ञानस्य चाननुभूतिः प्रसज्यते परानुभूतवत्। पुरुषान्तरानुभूतार्थतज्ज्ञानयोरिव ( ५३९ ) ।
ननु आत्मनाऽनुभूतमर्थं तत् ज्ञानं प्रत्यक्षं न परैरनुभूतमिति यद्युच्यते । आत्मानुभूतं प्रत्यक्षं नानुभूतं परैः यदि ।
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥५४०॥ नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभवात् । तदनुभवाभावे चार्थानुभवा।सद्धे
रात्मानुभूतिः सा कुतः सिद्धा । येनैव' मुच्यते । आत्मानुभूतं प्रत्यक्षं न परानु- ssb भूतमिति । ( ५४० )
ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा तथा ज्ञानाननुभवेप्यर्थो ज्ञात इति भविष्यतीत्याह (1)
व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः । व्यक्तयसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ ५४१॥
अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेप्यप्रसिद्धिरव्यक्तिः स्यात् यतो न कारणदर्शनपूर्व्वकं कार्यदर्शनं । न तु व्यक्तेरुपलब्धेर्व्यक्तमर्थमिच्छतो व्यक्त्यसिद्धियुक्ता । यदि पुनर्व्यक्तेरसिद्धावपि व्यक्तं वस्तूच्यते तदा सर्व्वमिदं जगद् व्यक्तं " स्यात् । अव्यक्तव्यक्तिकत्वेन विशेषाभावात् तथा ह्यर्थो न सत्तामात्रेण प्रतीत उच्यते । प्रतिपत्तिसंयोगात् ( 1 ) नापि ज्ञानसत्तामात्रेण परचित्तज्ञानेनापि संवेदनप्रसङ्गात् किन्तु ज्ञानानुभवेनार्थप्रतीतिर्व्वाच्या । न चान्येन सम्वेदनं ज्ञानस्योपपपद्यत इति स्वप्रकाशमेव स्वभावतस्तद्वक्तव्यमिति स्वसम्वेदनसिद्धिरिति । (५४१)
1
श्राचार्यश्री मनोरथ न न्दि कृतायां वार्त्तिकवृत्तौ प्रत्यक्षपरिच्छेदो द्वितीयः ॥
'ज्ञानज्ञानादन्त्यवर्तिनो ज्ञानान्तरेणाननुभूताद्विषयान्तरसञ्चारस्तस्य स्ववेदनमवश्याभ्युपेयं। तस्याननुभवे प्राक्तनमगृहीतमिति सर्व्वलोपः ।
अनुभवसिद्ध ह्यात्मपरविभागः ।
३ अज्ञातस्यापि बीजस्याङकुरजननदृष्टेः ।
8 सर्व्वे सर्व्वज्ञाः स्युः ।
* न च भवति तस्मात् स्ववेदनमेष्टव्यम् ।
३६