________________
२८० प्र० वा. वृत्तौ (२ परिच्छेदः)
चक्षुरूपालोकमनस्कारादिषु जायमानरूपक्षणेन्द्रियज्ञानकार्यद्वयापेक्षयाऽवान्तरभिन्नसामग्र्योरेकस्य रूपस्योपादानसहकारिभावेनोपयोगात् एकस्मादप्यनेक कार्य जायत इति तत एकमनेककार्यकृदित्युच्यते (1) न त्वेकस्मादसहायादनेकं कार्य जायते इत्यभिप्रायात् । (५३६) स्यादेतत् (।)
अर्थ पूर्वश्च विज्ञानं गृह्णीयाद् यदि धीः परा । धीर्जायमाना पूर्वञ्च' विज्ञानमर्थञ्च तत्कालसन्निपतितं यदि गृह्णीयात् तदा विषयान्तरसञ्चारः सम्भवेत्। अत्राह (1)
अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥५३७॥
पूर्वापरार्थभासित्वाचिन्तादावेकचेतसि । पूर्वगृहीतस्य वर्णस्य चिन्तादावादिशब्दात् प्रत्यक्षेप्येकस्मिन् चेतसि दृष्ट: क्रमो यस्य तत् दृष्टक्रममभिलापद्वयं वर्णद्वयं नित्यमक्रम स्यात् युगपत्प्रतीयतेत्यर्थः । (५३७) किं कारणमित्याह (1) पूर्वापरार्थभासित्वा'त् चिन्तादिज्ञानेन हि पूर्ववर्णग्राहकज्ञानं गृह्यत इति तत्प्रतिभासी वर्णो गृह्येत । तत्कालोपनिपतितश्चान्यो वर्ण इति क्रमोपलभ्ययोर्युगपद् ग्रहणप्रसङ्गः।
द्विढेिरेकं च भासेत भासनादारमतद्धियोः ॥५३८॥ एकञ्च वर्णादिद्विर्भािसेत। आत्मतद्धियोर्भासनात्। तद्दर्शने तत् . ज्ञानदर्शने तु तदृष्टमिति द्विधा दर्शनप्रसङ्गः । (५३८)
(७) आत्मानुभूतं प्रत्यक्षम् विषयान्तरसञ्चारे यद्यन्त्यन्नानुभूयते ।
परानुभूतवत्सर्वाननुभूतिः प्रसज्यते ॥५३९॥ अथ विषयज्ञाने वृत्ते तज्ज्ञाने चोत्पन्ने विषयदर्शनस्य निष्पन्नत्वात्
१ प्रसङ्गसाधनमिदं यदि पूर्वापरावर्थावकत्र भासेते इत्यर्थः ।
अवर्णचिन्तने अनाहिज्ञानग्राहक यदुत्तरमिवर्णग्राहकं तत्रेकारश्च पूर्वज्ञानारूढाकारश्च भासत इत्यभिलापद्वयमेकचित्तं स्यात् । न चास्ति।
विषयरूपमात्मा, तदिति तदालम्वनं ज्ञानं तयोः। एकदा ह्यकारः स्वग्राहिज्ञाने भाति पुनरिकारज्ञाने स्वज्ञानारूढः इत्येकवर्णचिन्तैव न स्यात् ।
स्वयं सिद्धसाधनं परिहृत्याचाीयं समन्वयते परिहारं।