________________
प्र० वा० वृत्ती (२ परिच्छेदः) तत्साशाजनकत्वलक्षणं ग्राह्यत्वं बुद्धेरप्यस्तीति साप्युत्तरबुद्धिजनिका तयैव तद्ग्राह्यत्वे व्यवस्थिता रूपादिषु कारणत्वेपि देशाद्यविप्रकर्षश्चक्षुराधुपयोगञ्चापेक्ष्य तग्राह्यतेष्यते। चेतसस्तु देशादिविप्रकर्षाभावाच्चक्षुराद्युपयोगाभावाच्च• ग्राहिणो ज्ञानस्योपादानमुपादानकारणता सम्वित्तिरनुभवात्मता ते पाह्यलक्षणं। स्वसम्वेदनस्वभावतायां सत्यामुपादानकारणतोत्तरबुद्धिग्राह्यतेत्यर्थः। (५३१)
... (५) क. योगिनां ज्ञानम् ननु सूक्ष्मव्यवहितासन्नरूपाद्यनुपादानञ्च ज्ञानञ्चेन्न ग्राह्यं तदा कथं यो'. गिनां तेषां ग्रहणमित्याह (1)
रूपादेश्चेतसश्चैवमविशुद्धधियं प्रति ।
ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥५३२॥ रूपादेरसूक्ष्मस्याव्यवधानादिविशिष्टस्य बुद्धिकारणत्वं । चेतसश्चानुभवात्मत्वे सत्युपादानता ग्राह्यत्वमिति। एवमनेन प्रकारेण ग्राह्यलक्षणचिन्तेयं प्रक्रान्ता अनुषिर्य वासनोपप्लुतबुद्धिमदग्दिर्शिनं जनं प्रति न तु विशिष्टबुद्धीन् योगिनः प्रति (1) यस्मा योगिनां सूक्ष्मव्यवहितपरचित्तादिगतिरचिन्त्या। भावसत्तामात्रं योगिज्ञानापेक्ष्यं ग्राह्यलक्षणमित्यर्थः। (५३२)
तत्र सूक्ष्मादिभावेन प्रायमग्राह्यतां व्रजेत् । - रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते ॥५३३॥
तत्रतादृशे ग्राह्यलक्षणद्वये स्थिते सति रूपं स्थूलमव्यवधानादिभावे सति प्रारं सत्पश्चात् सूक्ष्मादिभावनाग्राह्यतां व्रजेदिति युज्यत एवैतत् ।' बुद्धेरेकदा ग्राह्यायाः पश्चादग्रहणकाले कि सूक्ष्मत्वाद्य ग्राह्यताकारणं जातं यत् प्रागुपलम्भकाले न विद्यते। न हि स्वसन्तानवर्तिनश्चेतसो निरवयवस्य सर्वदा किञ्चि
....यदि सौम्यादरप्राचं रूपादिरचित्तञ्चानुपादानभूतत्त्वात्तदा योगिनां तदुभयं न पाह्यं स्यात् (1) भवति च तद् व्यभिचारि लक्षणं।
समाधिवलेनकजन्मकुशलेनापि देवेष्वष्टगुणश्वर्यादिः किं पुनश्चिरेण वीतावरणानां।
रूपमग्राम स्यादपि बुद्धस्त्वेतत् सर्व नास्तीति कथमनायता।.