________________
२७६
प्र० वावृत्ती (२ परिच्छेदः) नेकत्वादेको प्यनेकज्ञानजनक इति चेत्। ज्ञेयस्यानेकत्वात्तद्ग्राहकानेक'शान 'जन'कोपि स्यादिति समानं । किञ्च (1) मनो नित्यमेकदापि सर्वज्ञानजननशक्त न वा। शक्तञ्चेत् सर्वज्ञानानि सकृत् कुर्यात् । अशक्तञ्चेत् क्रमेणापि तज्जनने न शक्तं स्यात् । पूर्वावस्थितस्याशक्तस्य रूपस्य पश्चादप्यविशेषतो विशेषाभावात् । (५२६)
अनेन देहपुरुषावुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चात् बुद्धश्चेदस्तु सम्मतम् ॥५२॥ अनेन महसः शक्तत्वाशक्तत्वविकल्पाद्दोषद्वयेन देहपुरुषौ शरीरात्मानाचुक्तावुक्तोत्तरौ। तयोरपि तथा विकल्पे तथादोषसद्भावात् ज्ञानजातशानहेतोः संस्कारतो बुद्धीनामसकृद् भावनियमो यदीष्टस्तदा संस्कारस्य कुतः परचा दुत्वन्नो बुद्धीमियमयेत्। बुद्धेः पूविकाया उपपद्यत इति चेत् (1) अस्तु पूर्वस्या बुद्धासनासंज्ञकस्य संस्कारः स बुद्ध्यात्मनो जन्म सम्मतमस्माकं (1) तथा च यदुक्तं "न हि धीः प्राग् धिया विने" (२।५२१)ति तदेव प्रसाधितं स्यात् । ततश्च बुद्धेर्बुड्यन्तरजन्मनः सामर्थ्यादुत्तरया धिया पूर्वबुद्धिगुह्येतेति न स्याद्विषयान्तरसञ्चारोस्याः। (५२७)
स्यादेतत् । बुद्धरुपादानतामात्र बुढ्यन्तरं प्रति न तद्ग्राह्यता ततो विषयान्तरसञ्चारो भवेदित्याह (1)
न ग्राह्यतान्या जननाजननं ग्राह्यलक्षणम् ।
अग्राह्यं न हि तेजोस्ति; न बुढ्यन्तरजननादन्या तद्ग्राह्यता किन्तर्हि जननमेव ग्राह्यस्य लक्षणं । तच्चेदस्ति कुतो ग्राह्यताया अभावः (1) न हि तेजो ज्योतिर्बुद्धेर्जनकतयाऽ
'ममसःकरणानां न स्वातन्त्र्यं कर्तृवशवृत्तेः। कोरैक्ये (इ)न्द्रियैक्यमनेकत्वे तु एककरणेनाप्यनेका क्रिया परस्य ।
- पूर्वानुवाद()। न तहि: मनो नियामकं ज्ञानानामात्मैव संवासनो नियामकः स्यात् । युगपत् ..
सहकार्यपेक्षाप्यनाषेयातिशयस्य। ...एकदेहादिकशान वैभाष्यस्य पुद्गलनामा पुरुषोपि। स सांख्पस्यात्मा इष्टः।
"नित्यत्वे सकृद्भाव एव अनित्यत्वे तु प्रश्नः।