________________
प्रत्यभिज्ञाचिन्ता
२७५
विकल्पज्ञानान्यपि सह
अविगुणपूर्व्वज्ञानानपेक्षायामालयादिन्द्रियज्ञानानीव जायेरन् । अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्यत्रेन्द्रियान्त' रेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुवयो यदि सम्मतः सो पि न युक्तः । कदाचिद् नर्तकीदृष्ट् "यवस्थादिष्वनेकविषयसन्निपाते चक्षुरादिज्ञानानां सहोदयात् । ( ५२४)
यदा च न पटीयान् कश्चिद्विषय: प्रत्युपतिष्ठते पुरुषस्य च न क्वचिद्विशेषेणेच्छा भवति तदा ( 1 )
समवृत्तौ च तुल्यत्वात्सर्व्वदान्यागतिर्भवेत् ।
जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ||५२५॥
अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च मनस एकेन्द्रियसम्बद्धस्य तुल्यत्वाद्विषयान्तरे प्रेरकाभावात् उदासीनत्वात् सर्व्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रतीतिर्न स्यात् । अस्ति च क्वचिद नासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनं । आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोगविशेषस्य नियामकस्याभावात्
सकृद् वा जन्म स्या' त् । (२२५)
एकैव चैत्क्रियैकः स्यात् किन्दी पोऽनेकदर्शनः । क्रमेणापि न शकं स्यात्पश्चाप्यविशेषतः ॥५२६॥
न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रतिनियमः शक्य वक्तुं एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा किया जायते न च द्वे इति चेत् । यद्येवं किं कस्माद्दीप एकोऽनेकदर्शनोऽनेकद्रष्टृज्ञानजनकः । द्रष्टुर
१ यतो विषयान्तरादिवृक्षुः स्यात् ।
`५ सकृदपि दीर्घशष्कुलीसमर्मरध्वनिं समुद्वहद्बहलामोदां धवलादिरसान्वितां अतिस्पर्शवर्ती कुड्यां मिश्रतो ( ? ता) नेकेन्द्रियज्ञानस्य सम्वेदनात् स्फटिकतुल्ये. समनन्तरे सकृत्संगतसर्व्वार्थेष्विन्द्रियेष्वसत्स्वपीत्यादौ साधितं प्राक् ।
* वैशेषिक आह (1) अणु मनोद्रव्यं पृथिव्यादिद्रव्येषु पतितं । ज्ञानन्त्वात्मगुणो नवस्वात्मगुणेषु मध्ये पाठात् । ४ यत्रात्मा मनसा तदिन्द्रियेण तद्विषयेण तत्र कमोत्पत्तिकल्पनैवं स्यादपि । आत्ममनसोनित्यत्वादविशेषात्तत्प्रतिबद्धसन्निकर्षोप्यविशिष्टः । न क्रमनियामकं मन एकत्वात् सकृदात्मसंयोगात् ।
आत्मानं कर्त्तारमपेक्ष्य कारणभूतात् ।