________________
प्र० वा० बृत्तौ (२ परिच्छेदः)
यदि च सा शक्तत्वात् स्वग्राहिकान्धियं कर्तुमसमर्थार्थधियमपि न कुर्य्यात् । तथा ह्यन्यस्मिन्नर्थे आसक्तिरभिष्वङ्गस्तया विगुणे पूर्व्वे विज्ञाने तदुत्तरस्य ज्ञानस्योदयागतेः जन्माप्रतीतेः पूर्व्वबुद्धेः सामर्थ्यादुत्तरबुद्धेर्जन्मेति निश्चीयते (1) ततः समर्था पूर्व्वबुद्धिः स्वग्राहिणीमेव धियं जनयेत् । तत्र परापेक्षाविरहात् । (५२१)
२७४
वालय विज्ञानात् सकृत् षट् प्रवृत्तिविज्ञानानि जायन्त इतीष्यते ततस्तान्यर्थाशक्तिवैगुण्येपि पूर्व्वचेतस आलयज्ञानान्तरं जायेरन् आलयज्ञानस्याव्याहतशक्तित्वादित्याह ' ( 1 )
सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहित वैगुण्यादालयान्नान्यसम्भवः ॥५२२॥
सकृद्विजातीयानां प्रवृतिज्ञानानां जातावप्यालयज्ञानादिष्टायामेकेन चित्तेन स्वविषयासक्तेन पटीयसा विषयान्तरज्ञानजननं प्रत्याहितमारोपितं वैगुण्यं यस्य तस्मादालयादन्यस्य विषयान्तरप्राहिज्ञानस्य सम्भवो न भवति । (५२२) स्यान्यज्ञानमित्येव प्रवृत्तिज्ञानानि भवन्ति (1) किन्तु मनस्कारसाद्गुण्यमपेक्षन्तेत्याचे नेष्यते तदा (1)
नापेक्षतान्यथा साम्यं मनोवृत्तेर्मनोन्तरम् । मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥५२३॥
542
मनसः समनन्तरप्रत्ययस्य वृत्तेः साम्य 'मर्थान्तरानासक्तत्वेनानुकूल्यमुत्पित्सु . मनोऽन्तरं नापेक्षे'त । अपेक्षते च । ततो मनस्कारानुकूलता सापेक्षादालयात् ज्ञानोत्पत्तिः । तथा मनोज्ञानानां विकल्पानां क्रमेणोत्पत्तिर्युगपदनुत्पादोप्युत्तरज्ञानानां पूर्व्वज्ञानापेक्षा प्रसाधनी । (५२३)
एकत्वान्मनसोन्यस्मिन्सक्तस्यान्यागतेर्यदि । ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात् ||५२४||
१ कुत एतदिति युक्तिमाह । सन्निहितेपि विषये ज्ञानोत्पादानुपलब्धेः । * विज्ञानवादिन आलय (विज्ञानं) विविधवासनाभावितं नदीस्त्रोतोवदविरतं इन्द्रियज्ञानानां प्रवर्तकं ।
मनसः ।
8 न च प्रवर्तन्ते इति मन एवापादानं नालयं ।
" आल्याद्विजातीयत्वं मनसो व्याकृतत्वेन, ऐन्द्रियाणां च कादाचित्कत्वेन । - याद्विजातीयत्वं । अवैगुण्यं साम्यं ।