________________
प्रत्यभिज्ञाचिन्ता
२७१
अर्थश्चार्थप्रत्ययश्चार्थार्थप्रत्ययौ सुपलक्षण भेवेन संविसावनुभवे, न लक्षितौ । तौ पश्चात् कालान्तरे पृथग् भेदेनायमर्थोऽर्थज्ञा' तञ्वेदमिति कथं स्मर्येते युगपदर्थज्ञानतज्ज्ञानयोरुत्पादे प्रतिभासनानात्वप्रसङ्गात् । (५०९)
क्रमेणानुभवोत्पादेप्यर्थार्थमनसोरयम् ।
प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ ५१०॥
अर्थार्थमनसोः क्रमेणानुभवोत्पावेपीष्यमाणेऽयं प्रतिभासस्य नाना 'त्वचोय' - लक्षणो दोषो दुरुद्धरः । द्वयप्रतिभासस्य क्रमेणाभ्युपगमात् । ( ५१० ) अर्थसंवेदनं तावत्ततोर्थाभासवेदनम् ।
न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् * ॥५११॥ तथा हि नीलाद्याकार एक एक च वेदनम् ।
• लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥५१२ ॥
न चार्थज्ञानं ज्ञानञ्च कदाचिद् भेदेन प्रतीयते । ( ५११) तथा हि नीलायाकार एको ग्राह्यतया एकञ्च तद्ग्राहकं वेदनं लक्ष्यते न तु नीलाभे वेदने पृथग् ग्राहकमपरं वेदनं लक्ष्यते । तस्माज्ज्ञानस्य विदितस्यान्येनानुभवासम्भवे स्ववेद - नमेव तदिति व्यवतिष्ठते ॥ ( ५१२ )
किञ्च (1)
ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेत्;
नीलादिविषयस्य ज्ञानस्य ज्ञानान्तरेणानुभवो भवेत् । तत्रापि ज्ञान-ज्ञानेपि हि स्मृतिर्दृष्टा । यदा ज्ञानान्तरालम्बकं ज्ञानं क्रमेण स्मर्यते न चागू
1. स्मयेते च तस्मान्न युगपद् द्वयं । युगपद् भानम्मा भूद्विच्छिन्नमुत्पद्येत ।
२ पूर्वेन्द्रियज्ञानस्य मनसानुभवेपि * अर्थज्ञानं ज्ञानज्ञानारूढमिति ।
• एकोऽर्थाकारः सम्वेदनाकारश्चेत्यप्रसङ्गोऽत्र ।
* शास्त्रकृत् स्वयं परित्यज्याचार्थीयमाह ( 1 ) न हयसौ स्मृतिरभावितेषु जात इत्याचार्येण स्वसम्वित्तिसाधनायोक्तं । परेणात्र सिद्धसाधनमुक्तं विनापि स्वसंवित्तिं ज्ञानान्तरेण संविद् भविष्यतीति सिद्धान्तितमत्र ।" ज्ञानान्तरेणान- 9 भवेऽनिष्टा तत्रापि हि स्मृतिः विषयान्तरसञ्चारस्तवा स्यात् स चेत् स " इति व्याचष्टे । भवतु नाम, तथापि चात्र स्मृतिर्वष्टासीन् मे ज्ञानज्ञानमिति
A
सा न स्यात् स्वयन्तस्याननुभवात् । *त्तिकृतात्त्वविवृतैषा ।